________________
२८४ महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धान महाकाव्ये
स्तुतिः अथवा दशानां " दानशीलक्षमावीर्यध्यानप्रज्ञाचलानि च । उपायः प्रणधिर्ज्ञानं दशबुद्धबलानि वै" इत्युक्तलक्षणानां पूर्णः दशमः तस्य बहुधा आदानात् संग्रहात् शत्रुंजये शत्रूणां बाह्याभ्यन्तररिपूणां जये विजये स्तुततीर्थद स्तुतः स्तुतिविषयीकृतः यः तीर्थः पूतदेशः तत्र राजते इति तथोक्तः त्वं बलतः आत्मबलतः पूर्णः असि भवसि वाजिनम् अश्वम् आश्रितो न तथा न वा नेत्र जिनम् आश्रितः नागारोहेण पर्वतारोहण पर्वताधिष्ठानेन राजरयावृतः राज्ञश्चन्द्रस्थ यो रयः वेगस्तेजस्तेन आवृतः आयुक्तः युक्त इति भावः || कथं न प्रभवसि किन्तु प्रभवस्येव यथा चन्द्र उदयाद्रिसमारूढः विद्योतते तथा भवानपि नागारोहेन दीप्यते इति भावः ॥ ५० ॥
रामपक्षे — अक्रोधः क्रोधरहितः यः स महान् गुरुर्भवति व्यागतः सीतात्यागतः सीतार्पणतः गतिमान् अत्यधिकसमुन्नतिपदगामी भवतीत्यर्थः दशमबहुधादाने ददातीति दः पर्वतः स इव यः शमः शान्तिः पर्वतो यथा सर्वाश्रयस्तथा शमाश्रितोऽपीति भावः स दशमः दः पर्वते दत्ते खण्डने चेति शब्दस्तोममहानिधिः तस्य बहुधा अनेकशः सर्वदेत्यर्थः आदाने ग्रहणे शत्रुञ्जय आभ्यन्तरिकानां बाह्यानां शत्रूणां जये पराजये स्तुततीर्थराद् सत्पात्र श्रेष्ठो भवति त्वं रावणः बलतः सैन्यतः सामर्थ्यतश्च पूर्णः युक्तोऽसि जिनमाश्रितः न वा जिनाश्रयणं विना नागारोहेण राजस्यावृतः राजतेजोयुक्तः कथं प्रभवसि नैव प्रभवसि अतो जिनाश्रयणमवश्यं कर्त्तव्यं तस्मिँश्च सुतरामेव युद्धनिवृत्तिः परदाराऽसंग्रहश्च भविष्यतीति भावः ॥ ५० ॥
एवं कृष्णपक्षेऽपि ज्ञेयम् ॥ ५० ॥