________________
भाचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-५ २८ भवति स महानक्रोधस्त्यागतो गतिमानये,
दशमबहुधादाने शत्रुञ्जये स्तुततीर्थराट् । त्वमसि बलतः पूर्णस्तूर्णं नवा-जिनमाश्रितः, । प्रभवसि कथं नागारोहे न-राजरयावृतः ? ॥५०॥
अन्वयः---अये यः अक्रोधः स महान् भवति त्यागत: गतिमान् दशमबहुधादाने शत्रुजये स्तुततीर्थराट् त्वमसिबलतः पूर्णः सूर्ण न वा जिनमाश्रितः नागारोहे नराजरयावृतः कथं प्रभवसि ॥ ५० ॥
न्याख्या-अये इति संबोधने हे प्रभो ? शक्तिमन् ? अक्रोधः को. धरहितः जनः यः स महान् भवति महत्वमामोतीति भावः त्यागतः सांसारिकविषयवासनापरित्यागात् गतिमान् ज्ञानवान् भवति त्यागस्य ज्ञानपुरःसरत्वात् सैव यर्थाथज्ञानवान् सर्वथा यः सर्वान् परित्यजतीति भावः अथवा त्यागतः संसारत्यागतः गतिमान् प्रशस्तगमनशील: देवत्वे मोक्षत्वे च गन्ता भवति यद्वा त्यागतः अगतिमान पुनः पुनर्गमनागमनरहितः जन्ममरणरहितो भवति दशमबहुधादाने दशमस्य तन्नामकतपोविशेषस्य बहुधा आदाने ग्रहणे अनेकधा दशमतपोऽनुष्ठानात् शत्रुजये आभ्यन्तरिककामादिशत्रुविजये विषये स्तुततीर्थराट स्तुतम् प्रशंसितम् यत्तीर्थम् शास्त्रम् तत्र राजते इति तथा यथार्थशास्त्रज्ञानवान् यद्वा स्तुतं प्रशंसितं यत्तीथे विद्यादिगुणयुतपात्रं तत्र राजते यः स तथोक्तः अथवा "सत्यं तीर्थ क्षमातीर्थ तीर्थमिन्द्रियनिग्रहः सर्वभूतदयातीर्थ सर्वत्रार्जवमेव चैत्युक्तप्रकारस्य तीर्थस्य ग्रहणाद्राजते यः स अथवा दशमस्य अवस्थाविशेषस्य बहुधा आदानात् ग्रहणात् ससिन् सति शत्रुञ्जये विमलाद्रौ स्तुतः स्तुतिविषयीकृतः तीर्थराट् जिनेश्वरो येन स तथोक्तः वृद्धत्वेऽपि शत्रुजये कृततीर्थकर.