________________
૨૮૨ महोपाध्याय श्री मेघविजय गणिविरचिते सप्तसन्धानमहाकाब्बे
नृपानामागमः साहाय्यसम्मेलनं यत्र तस्मिन् विहतकलहादेशे पारस्प रिककलदरहिते परिजनगणे परिजनाश्रितभूमौ सुरक्षित इत्यर्थः ॥ नागस्थाने पर्वतसमीपे स्थितिम् अकृत व्यदधात् ॥ ४८ ॥ त्यजत मनुजा रागं द्वेषं धृतिं दृढसज्जने,
भजत सततं धर्म यस्मादजिह्मगतारुचिः । प्रकुरुत गुणारोपं पापं पराकुरुताचिराद्,
मतिरतितरां न व्याधेया परव्यसनादिषु ॥ ४९ ॥
अन्वयः -- हेमनुजाः ! राग द्वेषं त्यजत Eee घृतं सततं धर्म च भजत यस्माद् अजिह्मगतारुचिः गुणारोपं प्रकुरुत अचिरात् पापं निराकुरुत परव्यसनादिषु मतिः अतितरां न व्याधेया ॥ ४९ ॥
व्याख्या - हे मनुजाः ? मानवाः ? तेषामेवज्ञानाश्रयत्वाद्विशिष्योक्तम् रागं अनुरागं विषयाभिनिवेशं द्वेषं विरोध अनिष्टसाधनताज्ञानजन्यं रामप्रतिबंधिचित्तवृत्तिभेदं त्यजत निराकुरुतदृद्धसज्जने सुस्थिर सज्जने जने कषायाद्यनभिनिविष्टचित्तवृत्तिशालिनि वृतिं धैर्य भजत सेवत धारयतेति यावत् सततं निरन्तरं धर्म सुकृतं भजत संचिनुत यस्मात् धर्म सेवनात अजिह्मगता अकौटिल्यगता ऋज्वी रुचिः बुद्धिः भवतीति शेषः गुणारोपं गुणस्य दयादाक्षिण्यादिरूपस्य आरोपः आधानं प्रकुरुत गुणसंचयं विधत्त अचिरात् सद्यः तत्क्षणमेव पापं किल्मिषं निराकु. रुत पृथक् कुरुत दूरतस्त्यजत परव्यसनादिषु परेषु निकृष्टेषु व्यसनादिषु परस्त्रीसंग मद्यपानस्तेयादिषु यद्वा परेषां अन्येषां व्यसनादिषु दुःखजनक व्यापारेषु मतिः बुद्धिः अतितराम् अत्यन्तमेव किञ्चिदपीत्यर्थः : न व्याधेया न योजनीया यथा परबाधा भवेत्तथा किमपि नैत्र विधेयमितिभावः ॥ ४८ ॥ सर्वपक्षसाधारणमेतद्व्याख्यानम् ॥
WA