________________
भाचार्यश्रीविजयामृतरिमणीता सरणी टीका. सर्ग-
५
२८१
विहारविधौ विक्रम उत्साहो यस्य स सन्नतविहारप्रेमवान् उन्मनाः उत् उच्चैः मोक्षादौ मनश्चित्तं यस्य स उच्चाभिलाषी नृपः नृन् पातीति नृपः जीवेषु प्राधान्यात् तन्निर्देशः प्राणिमात्ररक्षकः जिनेश्वर इत्यर्थः।। क्रमपरिचिते क्रमेण गमनेन परिचिते जातपरिचये अथवा क्रमात क्रमशः परिचिते जात विश्रंभे सुभोगिजनागमे समृद्धशालिजनशालिनि भूमीभागे भूविभागे विहतकलहादेशे सर्वथाशान्तकलहे देशे स्थाने परिजनगणे परिजनानां गणः समुदायो यत्र नागस्थाने पर्वताश्रये यद्वा वृक्षागमे वृक्षाश्रये स्थितिम् स्थानम् सन्निवेशम् अकृत व्यधात् अत्रानुप्रासालंकारः ।। ४८॥
रामपक्ष-विहगविरुतैः पक्षिशब्दैः नुन्नः कृतत्वरः त्यक्तनिद्रो वा भिन्नक्रमः अन्यक्रमः रतिविक्रमः अनुरागक्रमः यस्य स सीतावि. रहात विप्रलंभरूपः क्रमपरिचिते क्रमेण गमनेन परिचिते जातपरिचये सुभोगिजनागमे सुखसौभाग्यवति अनाश्रये भूमीभागे भूप्रदेशे विह तकलहादेशे विनष्टकलहके देशे परिजनगणे परिचारकजनमहिते ना. गस्थाने पर्वतप्रदेशे आश्रये आश्रमे उन्मनाः सीताविरहखिनचेताः नृपः रामः कृतस्थितिमा कृतनिवास आसीदिति शेषः ॥ ___ कृष्णपक्षे-जरासन्धस्य संग्रामाय कृष्णं प्रति गमनवर्णन विहगेति । विगविरुतैः अशुभसूचकपक्षिशब्दैः नुन्नः खिन्नः विमनस्कः " प्रतिकूलः समीरोऽभूद्गृध्राश्चमुरम्बरे इति तच्चरित्रे" भिन्नक्रमो रतिविक्रमः भिन्नक्रमो विच्छिन्नक्रमो रतिविक्रमो यस्य स प्रथम शृङ्गाररसस्य स्थायीभाव आसीदिदानी वीरस्य उत्साहस्थायीभावो जात इति भित्रक्रमेति उन्मनाः शत्रुकृतापराधस्मरणेन क्षुब्धचित्तः नृपः . प्रति वासुदेवो जरासंधः क्रमपरिचिते सुभोगिजनागमे शुभोगिजनानां