SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २८० महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाचे काञ्चनवर्णः अनुपमच्छायम् अनुपमा उपमातुमयोग्या निरुपमेत्यर्थः छाया कान्तिर्यस्य तं कायं देहं शरीरं दधौ दधातिस्म साधुदशायाम. नियतविहाराहाराभ्यामपि रुक्षदेहसम्भवे तपोमहिना स्वर्णवर्णदेई प्रभोर्वभूवेति तात्पर्यम् ॥ ४७ ॥ रामकृष्णपक्षे-वदान्यधिया अत्युदारमत्या वन्यान् वनेभवान् कचन कापि धन्यान् धनसहितान् यद्वा कृतार्थान् विदधत् विरचयन् किश्च अनुपदभृजिस्थाने पदे पदे इति अनुपदम् भुजेः भोग्यस्य स्थानम् भुजिस्थानम् अनुपदश्च तत् भुजिस्थानञ्चति तस्मिन् हिरण्मयसाधनै स्वर्णमयोपकरणैः वृष्टैः निसृष्टैरुपलक्षितः जनपदगतं स्वाभिमुखनगरस्थितं वैरं विद्वेषं हरन् परिहरन् विहरन् निर्गच्छन् प्रभुः रामः कृष्णश्च कलधौतरुक् स्वर्णकान्ति: अनुपमच्छायं निरुपमकान्तिम् कायम् शरीरम् दधौ अवाललम्बे ॥४७॥ विहगविरुतैर्नुन्नो भिन्नक्रमरतिविक्रमः क्रमपरिचिते भूमीभागे सुभोगिजनागमे। विहतकलहा-देशे देशे कृतस्थितिमाश्रये परिजनगणे नागस्थाने नृपो ध्रुवमुन्मनाः ॥ ४८ ॥ ___ अन्वयः-विहगविरुतैर्नुन्नः भिन्नक्रमरतिविक्रमः उन्मनाः नृपः क्रमपरि. चिते सुभोगिजनागमे भूमीभागे विहतकलहादेशे देशे परिजनगणे नागस्थाने माश्रये ध्रुवम् स्थितिम् अकृत ॥ ४८ ॥ व्याख्या-विहगविरुतैः विहायमा गच्छतीति विहगः पक्षी तस्य तेषां वा विरुतैः प्रातःकालिकमधुरकूजनैः नुन्नः त्यक्तनिद्रः अथ वा विहगानां बाणानां विरुतैः शब्दैः नुन्नः खिन्नः यद्वा विहमानां कोकिलादिकामोद्दीपकपक्षिणां विरुतैः नुन्नः उद्वेजितः अभिः नक्रमरतिविक्रमः अभिन्नः अविच्छिन्नः क्रमरतौ विहारव्यापारे
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy