SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ भाचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५ २७९ सपर्या विधिम् दधत् विधापयत् अथवा विनतशिरसां राज्ञां जैनोपहा रविधिम् जैनप्रशस्तोपहारविधिम् उपढौकनानि दधत् धारयत् क्षमा धनदर्शने साधुसमागमे साक्षात् सर्वात्मनो रेजे चलति तु सैन्येन सह प्रचलति सति रजः सैन्यपदोस्थितधूली हरिदम्बराबरणकरणैः दिगाकाशाच्छादकैः श्रिया केतुं चके केतुं विदधौ ॥ ४६॥ क्वचन रचयन् वन्यान् धन्यान् वदान्यधिया धनरनुपदभुजि स्थाने वृष्टैर्हिरण्मयसाधनैः । जनपदगतं स्वैरं वैरं हरन् विहरन्निति प्रभुरनुपमच्छायं कायं दधौ कलधौतरुक् ॥ ४७ ॥ अन्ययः-क्वचन अनुपदभुजि स्थाने हिरण्मयसाधनैः वृष्टैः धनैः वदान्यधिया चन्यान् धन्यान् रचयन् विहरन् जनपदगतं स्वैरं वैरं हरन् कलधौतरुक् प्रभुः अनुपमच्छायं कायं दधौ ॥ ४० ॥ व्याख्या-कचन कुत्रापि अनुपदभुजिस्थाने भुज्यते इति भुजिर्भो ज्यम् तस्य स्थाने भिक्षालाभस्थाने यत्र प्रभोभिक्षा मिलति तत्र स्थले हिरण्मयसाधनैः स्वर्णमयकृतैः काञ्चनप्रचुरैः वृष्टैः वृष्टिभूतैः देवेन्द्रकुतस्वर्णरत्नादिवृष्टिभिः धनैः अन्नप्रचुरैश्च संपद्भिः वन्यान् बने तदालये भवान् तदालयगतान् यत्र जिनेन्द्राणां भिक्षा मिलति तदालयगतानित्यर्थः “वनम् वृक्षसमुदाये जले निवासे आलये चेति शब्दस्तो. ममहानिधिः" अथ च वन्यान् आरण्यकान् वदान्यधिया अत्युदारमत्या धन्यान् श्रेष्ठान भाग्यवत्तादिगुणविशिष्टान् कृतकृत्यान् रच. यन् विदधत कुर्वन्नित्यर्थः विहरन् बिहारं कुर्वन् जनपदगतम् नगरस्थं यत्र जिनेन्द्रो गच्छति तनगरगतवैरम् विरोध काकोलूकवत् शाश्वति. कमपि वैमनस्यम् स्वैरम् यथेच्छम् अनायासेन स्वचंक्रमणप्रभा. वेनेति तात्पर्यम् हरन परिहरन त्याजयन् प्रभुर्जिनेश्वरः कलधौतरुक्
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy