________________
२७८
महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
यित्वा सपदि शीघ्रम् पदिकान् पादचारिसैन्यान् अग्रेकृत्वा पुरतो विधाय ययौ द्वारका प्रति चचाल || ४५ क्वचन फलितारामे रामे विराममना रिपो.
विनतशिरसां राज्ञां जैनोपहारविधि दधत् । चलति तु रजश्चके केतुं श्रिया हरिदम्बरावरणकरणैः साक्षाद्रेजे क्षमाधनदर्शने ॥ ४६॥
अन्वयः-- वचन फलितारामे रामे रिपोविराममनाः विनतशिरसां राज्ञां जैनोपहारविधिं दधत् चलति तु रजः हरिदम्बरावरणकरणः श्रिया केतु चके क्षमाधनदर्शने साक्षानेजे ॥ ४६ ॥
व्याख्या-रिपोः शत्रोः विराममनाः विरामे विजये मनो यस्य स शत्रुरूपकर्मादिविजयकामुकः क्वचन कुत्रापि रामे मनोहारिणि फलितारामे फलितः संजातफलो य आरामः उपवनम् तस्मिन् फलान्वितबाह्योद्याने विनतशिरसां विशेषेण प्रभुगत भक्त्या नतानि नम्राणि शिरांसि येषां तेषां राज्ञां नृपानां जैनोपहारविधि जैने जैनशासने य उपहारा उपढौकनानि वन्दनानि वासाधुपयुक्तान्यनुमत्यादयस्तेषांविधि विधानं दधत् धारयत् स्वीकुर्वन् चलति विहरति सति विहारकाले रजः पादोत्थितरजः हरिदम्बरावरणकरणैः हरिश्च अम्बरश्च हरि. दम्बरे तयोरावरणकरणैः आच्छादनकारकै दिगाकाशावरकैः हेतुमिः श्रिया शोभासंपत्या केतुं चक्रे पताकां विदधौ प्रभोः सार्ध अनेकेषां साधूनां विहरणात् रजोबाहुल्येन दिगच्छादकत्वमिति भावः क्षमाधनदर्शने मुनिजनदर्शने साक्षात् सद्यः रेजे शुशुभे तुतोष ॥ ४६॥
रामकृष्णपक्ष-विराममना रिपोः रिपुदमनेच्छस्य कृष्णस्य च कचन फलितारामे रामे फलान्विते मनोरमे उपवने विनतशिरसां नतकंधराणाम् राज्ञाम् भूपानाम् सकासात् जैनोपहारविधिम् जैन