SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २७६ महोपाध्यायधीमेघविजयगणिविरचिते सनसन्धानमहाकावे हे राजन् ! समुद्रविजय ? अस्य मम वचः जरासंघसंदेशरूपम् शृणु अवधारय मुश्च कृष्ण मिति शेषः जरासंध प्रति कृष्णं प्रहिणु अथ च अरुचिं कृष्णत्यागरूपं वैमनस्यं मुश्च त्यज वसुधामु स्वकीयराज्यभूमिषु तां कृष्णप्रीतिम् कुरु कृष्णाऽत्यागात् राज्यहरणमवश्यम्भावीतिभावः गुरुकुलम् महद्यादववंशं धनसंकुलं धनधान्यसमृद्धं अनीतौ कृष्णाऽग्रेषणरूपापराधे आकुलम् विपर्यस्तम् विपद्ग्रस्तम् न कुरु न विधेहि इति लघुगिरा नीचवाक्येन स समुद्रविजयादिः दशानने दशदिशि सर्वतः क्रुद्धे युद्धे स्थिरे गणेन सैन्येन विभीषणः भयानकः अस्य जरासंधस्याऽपास्यै निरसनाय बलं सैन्यम् अलभत अचिन्वत ॥ ४४ ॥ अवगमनतः पुत्री जीवद्यशा अवशाऽवदद् मनसि चरितं मत्वा भूपः प्रयाणमधात् पुरः। त्रिभुवनगुरोः स्मृत्या दृष्यविभूष्य हयद्विपं सपदि पदिकानग्रे कृत्वा ययौ विजयाशयः॥४५॥ अन्वयः – अवगमनतः पुत्री जीवद्यशा अवदत् अवसा भूपः मनसि सरितं मत्वा पुरः प्रयाणम् अधात् त्रिभुवनगुरोः स्मृत्वा हयद्विपं दूष्यैर्वि भूज्य विजयाशयः पदिकान् अग्रे कृत्वा ययौ ॥ ४५ ॥ व्याख्या---अवगमनतः अवगम्यतेऽनेनेति अवगमम् ज्ञानम् तस्मिन्नतो लग्नः इति अवगमनतः ज्ञानसंलग्नः पुत्री पुनात्यात्मानमिति तथोक्तः आत्मकल्याणकारकः जीवत् त्रिकालवर्तमानं यशः कीर्तियस्य स जीवद्यशा स्थिरकीर्तिः अवसा नास्ति वसो वसनं यस्य स शसयोरक्यात् , अवदत् प्रयोजनातिरिक्तवचनरहितः भूपः भुवम् भूमिस्थजीवम् पातीति भूपः जीवजातरक्षकः मनसि चित्ते चरितं व्रतकर्मचेष्ठितं मत्वा बुध्या 'चरितमनुष्ठाने संचारे व्रतकर्मादौ चेष्ठिते
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy