________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५
२७५
कुलम् तपोधनव्याप्तं शुरुकुलम् चारित्र्यम् अतीतो मोहराज्यनीतौ मोहादावित्यर्थः न कुरु न विदधीहि इति लघुगिरा अल्पस्मारणेनैव सदशा. नने सर्वतो भावे क्रुद्ध युद्धे मोहराजेन सह युद्धे स्थिरे निश्चले वीरायिते प्रभौ गणेन स्वीयधैर्यादिगणेन विभीषणः मोहराज प्रतिभयानकः बलम् आभ्यन्तरिकबलम् अलभत अप्राप्नुत ।। ४४ ॥
रामपक्षे हे राजन् ? नृप ? भ्रातः ? राजते सदसद्ग्रहणेन शोभते इति राजा तत्संबुद्धौ अनेन उपदेशताहेता तस्मिन् व्यज्यते मम यौनसम्बन्धिनः न तु मंत्रिण पत्र ते च भयादितः कदाचिन सदुपदिशन्ति अहन्तु न तथेति गर्वः वचः वचनम् सदुपदेशं शृणु समाकर्णय किमित्याशंक्याह मुश्चेति अरुचिम् नास्ति रुचिः रावणविषयकाभिलाषो यस्या सा अरुचिस्ताम् यद्वा न रोचते जनेभ्यः परस्त्रीत्वाद्या ताम् अप्रसन्नाम् अननुरागिणीमित्यर्थः वसुधासुताम् भूमितनयाम् जानकीम मुश्च त्यज तद्विपयकाभिलाषं मा कुरु तथाहि धन. संकुलम् धनेन सर्वसंपत्त्या संकुलं समृद्धम् गुरुकुलम् सर्वतोऽवदात्तं निजवंशम् अनीतौ परस्त्रीधर्षणरूपान्याये आकुलमस्तव्यस्तम् विपद्प्रस्तम् न कुरु न विदधीहि इति उक्तरूपम् लघुगिरा लघोः कनिष्ठभ्रातु: गिरा वचनेन यद्वा लघुगिरा क्षुद्रवचनेन कायरजनवचनीयवचनेन क्रुद्धे सद्यः कोपसमाविष्टे युद्धे संग्रामविषये स्थिरे निश्चले दशानने रावणे सति यावत् प्राण न दास्यामि मैथिली भीतभीतवदितिकृतनिश्चये स विभीषणः अस्य रामस्य उपास्याय सेवाय अवलम्बनाय गणेन स्वीयपरिवारेण अस्य रामस्य बलम् सैन्यम् अलभत अप्राप्नोत् रामसंगतोऽभवत् ॥ ४४ ।।
कृष्णपक्षे-कंसवधसंतप्तो जरासंधः कृष्णानयनाय सोमकं राजानं समुद्रविजयादिकं प्रति प्रेषीत स च तं प्रत्याह "शविति” ।