________________
२७४ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये वाचेत्यर्थः वचसापि तद् वचनेनापि हिंसनम् कर्तृ वक्र कुटिलम् चक्रम् विमोक्ष्यति चक्रप्रहारं करोतीति भावः “संभावनायां लद्" अत्र विषये का गतिः क उपायः अनिवार्यमेतदित्यर्थः अत इति शेषः हतनिगरणात् हतस्य हतशब्दस्य निगरणात् निगालात् सर्वथा अव्यवहारात् अस्तेन अस्तभृतेन अदर्शनेनेत्यर्थः अमुना हतशब्दनिगरणेन तेन हेतुना अनलके मते अनल एवानलकस्तस्मिन् अग्निरूपे मते यथाऽनिच्छयापि स्पृष्टोऽग्निर्दहति तथा हतशब्दप्रयोगोऽपि रदृष्टम् जनयतीति भावः अत एव नतेनम्रस्य सर्वत्र कृतमैत्रस्य शिरसो मूर्ध्न उपरीतिशेषः दिविसुमनसा देवकुसुमाना अहो इत्याश्चर्ये वृष्टिः वर्षणम् भाविनी संभाविता सर्वत्र नतान् देवा अप्यनुगृह्णन्तीतिभावः ॥ ४३ ॥
रामकृष्णपक्षे---हरेः मे हरिनाम्नो मम जनपेक्षित्या जनरक्षकदृष्टया लोकपालकत्वेन अरे: शत्रोः हत्या हिंसा न अस्तु नैव स्ताद शेषं पूर्ववत् ॥ ४३ ॥ शृणु मम वचो राजन् ! मुश्चारुचिं वसुधासुतां
कुरु गुरुकुलं नानीतावाकुलं धनसंकुलम् । इति लघुगिरा क्रुद्धे युद्धे स्थिरे स-दशानने बलमलभताऽस्योपास्यायै गणेण विभीषणः ॥४४॥
अन्वयः- हे राजन् ? वसुधासुताम् अरुचिं मुञ्च ना नीती अकुलम् धनसंकुलम् कुलम् कुरु इति लघुगिरा स दशानने ऋधे युद्धे स्थिरे सति अस्योपास्यायै गणेन विभीषणः बलम् अलभत ॥ ४४ ॥
व्याख्या हे राजन् ? देदीप्यमानप्रभो ? जिनेन्द्र ? वसुधासु चम रश्मि धारयतीति वसुधा तीक्ष्णतेजोधारणशक्तिः तासु तीक्ष्णतेजोधारणासु ताम् प्रसिद्धामतिशयितामित्यर्थः अरुचिम् अप्रीतिम् मुश्च त्यज अन्यथाऽतिमृदोस्ते मोहादिः पगभवं कुर्यादितिभावः अत एव धनसं.