________________
भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५
२७३
स्वस्य स्वकीयस्य उपदेशविधिम् विधीयते यत्र स विधिः देशस्य समी पमुपदेशम् तयोः कर्मधारय इति विधियमानदेशम् स्वशासनशासितभूप्रदेशम् प्रकृतिशिशिरम् स्वाभाविकनिर्मलं दृष्ट्वा तदा दर्शनदशायां कलिकुण्डिनम् कलिनिवर्तकं जनपदमपि नगरमपि तीर्थम् तीर्थभूतम् प्राहुर्जगुः ॥ ४२ ॥
कृष्णपक्षे-विविधविषयव्यामोहस्य अचिरसमावेसितनिजनगरवस्तुजातसंपादनरूपचिन्तनस्य व्यपासनम् व्यापनमेव तपश्चित्तैकाय्यता तदेव तापसस्तस्मात् हेतोः तेन कृष्णेन उद्योगात् प्रयासात् व्यापारविशेषात् विरलम् छिन्नभिन्नम् बलम् यादवसैन्यम् अविरलम् सन्नद्धं दुःप्रधणं कृतम् विधापितम् स्वस्य स्वकीयस्य उपदेशविधम् निवासभूमिम् प्रकृतिशिशिरम् स्वतो निर्मलं दृष्ट्वा कलिकुण्डिनम् पापनिवारकम् जनपदम् द्वारकापुरम् तीर्थम् पूतम् प्राहुः कथयन्तिस्म ॥ ४२॥ तदनु जनपे क्षित्या हत्या न-मेऽस्तु हरेररे
स्तदपि वचसा वकं चक्रं विमोक्ष्यति का गतिः । हतनिगरणात् तेनास्तेनाऽमुनाऽनलके मते दिवि सुमनसां वृष्टि विन्यहो शिरसो नतेः ॥४३॥
___ अन्वयः-जनपेक्षित्या हरेः अरेः मे हत्या न अस्तु वचसा तदपि वक्र चक्रं विमोक्ष्यति का गतिः हतनिगरणात् अस्तेन तेन अमुना अनलकेमते शिरस उपरि नतेः दिवि सुमनसां वृष्टिर्भाविनी ॥ ४३ ॥
व्याख्या-तदनु तत्थात् जनपेक्षित्या जनान् पाति रक्षतीति जनपः जनरक्षकः तस्य ईक्षितिरीक्षणम् तया जनरक्षकदृष्टया हरेः कामस्य अरेः विनाशकस्य जितकामस्य मे मम हत्या जीवहिंसा न अस्तु नैवभवतु वचसा तदपि वचनेनापि तद् हिंसनम् नास्सु न च कायेन न च