________________
२७२
महोपाध्यायश्रीमेधविजयगणिविरचिते सप्तसन्धानमहाकाचे
बलमविरलं तेनोद्योगात् तदा विरलं कृतं
विविधविषयव्यामोहस्य व्यपासनतापसात् । प्रकृतिशिशिरं दृष्ट्वा स्वस्योपदेशविधिं ततो
जनपदमपि प्राहुस्तीथ तदा कलिकुण्डिनम् ॥४२॥ ___अन्वयः--विविधविषयव्यामोहस्य ग्यपासनतापसात् तेन उद्योगात् अविरलं बलं विरलं कृतम् स्वस्य प्रकृतिशिशिरम् उपदेशविधि दृष्ट्वा तदा कलिकुण्डिनं जनपदमपि तीर्थं प्राहुः ॥ ४२ ॥
व्याख्या-विविधविषयव्यामोहस्य विविधविषये अनेकविषये वस्तुनि यो व्यामोहः प्रेमा अभिरुचिरित्यर्थः तस्य यद्वथपासनम् दूरीकरणम् परित्याग इति यावत् तस्मै व्यपासनाय यस्तापसस्तपश्वरणम् तस्मात् मोहनिवारकतपोऽनुष्ठात् तेन जिनेन्द्रेण प्रभुणा तदा साधुत्वदशायां अविरलं निबिडम् बलम् सैन्यम् राज्यावस्थानुकूलं सैन्यादिकम् कामक्रोधादि विषयवलम् वा विरलम् कृशम् कृतम् तनूकृतम् स्वस्य आत्मनः प्रकृतशिशिरम् स्वभावशीतलम् उपदेशविधि प्रवृत्तिविधिमाचारमित्यर्थः दृष्ट्वा विलोक्य तदा जिनेन्द्रसमागमदशायाम् जनपदमपि यस्मिन् प्रभुस्समेति तमगरमपि कलिकुण्डिनम् कलिनिवारकम् कलिदाहक वा तीर्थम् तीर्थभूतमतिशयपावनमित्यर्थः प्राहुः प्रोचुः जना इति शेषः ॥ ४२ ॥
रामपक्षे-विविधविषये राज्यकालिकानेकस्रक्चन्दनादिविलासहस्त्यश्वादिपदार्थे यो व्यामोहो ममत्वबुद्धिस्तत्तद्विषयकाभिनिवेशस्तस्य यद्यपासनं निरसनम् तदेव तपः व्रतम् तत्र साधुः तापसस्तस्मात् अनेकमनोहरवस्तुनिरसनतपोयोगात् तेन रामेण उद्योगात् उद्यमात् विरलम् विच्छिन्नम् असंचितमित्यर्थः बलम् वानरीयसैन्यम् अविरलम् निबिडं घनीभूतं संचितमितियावत् कृतं विरचितम्