________________
भाचार्यश्रीविजयामृतपूरिप्रणीता सरणी टीका. सर्ग-५
२७॥
A
..
...
चितस्यादत्तादानत्वेन पापजनकत्वात्सर्वथा तं जहावित्यर्थः स्वस्मिन् परात्मनि तुष्टये अमृतम् जलम् अधात् धृतवान् अमृतरुचिवद् चन्द्र इव अपूर्वो देवः सर्वोत्कृष्टो देवो जिनेन्द्रः यश अनुदिशम् प्रतिदिशम् नयत स जिनेन्द्र : अमृतनिधिना समुद्रेण यन्मर्यादा आश्रितेतिशेषः सु इति पादपुष्टौ तां मर्यादाम् भुवमतिशयाम् ययौ प्राप समुद्र इव गांभीर्य आसीदिति भावः ॥ ११ ॥
रामपक्षे तन्मन्योः तस्य रावणस्य मन्योः क्रोधात अमृतव्रतात् अमृतं व्रतयतीति अमृतत्रतः अमृतभोजी देवस्तस्मात् दुरात् अभूत् पृथक् अभूत् रावणभयात्तेषाममृतं दुर्लभं ययौ स्वस्मिन् स्व. शरीरे एवम् परात्मनि पुत्रादौ तुष्टये मुखेन जीवनाय अमृतम् अमरणम् अधात् कदाचिदपि न म्रिये इत्येवं निश्चयमकृत नाधिकार। कृतान्तस्य दशकंधरमन्दिरे इत्यभियुक्तोक्तेः अपूर्वः अतुलपराक्रमः देवो रावणः अमृतरुचिरिव चन्द्र इत्र अनुदिशं प्रतिदिशं यशः नयत् प्राख्यापयत् स रावणः सु सुष्टु यथास्यात्तथा अमृतनिधिना सागरेण यन्मर्यादा यस्या मर्यादा सीमा तां भुवम् तादृशी भूमिम् लंकां ययौ तत्र तस्थौ ॥ ४१ ॥
कृष्णपक्षे- अमृतव्रतात् अमृतमयाचितं व्रतयति निवर्तते इति अमृतव्रतस्तस्मात् मन्योः मान्यात् कृष्णात् अमृतं जलम् दूरात् अभूत् द्वारकानिर्माणाय जलं दूरङ्गतम् अमृतम् देवम् स्वस्मिन् एवम् परा. स्मनि तुष्टये अधात् अस्थापयत् "अष्टोत्तरशतेनोचैर्जिनबिम्बैर्विभूषितम् मेरुशृङ्गमिवोत्तुङ्गमणिरत्नहिरण्मयमितितच्चरित्रे" अमृतरुचिवत् अमृतांशुरिव अपूर्वो देवः कृष्णः यशः अनुदिशम् नयत यन्मर्यादा यदीयनगरसीमा अमृतनिधिना सागरेण अकृतेति शेष: सु सुष्ठु तां भुवम् द्वारकां ययौ अध्युवास ॥ ४१ ।।