________________
२७० महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसन्धानमहाकावे वशात् प्रभावात् महसा हीनम् निस्तेजस्कम अत एव दीनम् दैन्यमुपगतं सबलम् ससैन्यम् रावणम् अतुलबलवान् अपरिमितपराक्रमशाली मौनी मुनिव्रतवान् जनितजनतानन्दः विरचितलोकसमुदायसुखः रामः अबलम् दुर्बलम् कर्ता अजनि दुर्बलविधायकोऽभूत कयेत्याह अपराजितया अपराङ्मुखया वृत्या अच्छलेनेतिभावः ॥४०॥
कृष्णपक्षे-रक्षीगणे शरणे राक्षसजनावलम्बेरणे असंग्रामे मन्दो. दरीरमणे मन्दम् कृशम् उदरं यस्याः सा मन्दोदरी जीवद्यशा जरासंघदुहिता तस्या रमणे वल्लभे कंसे रते विरते मृते सति जनितजनता. नन्दः कृतलोकाहादः मौनी मौनव्रतवान् अतुलबलवान् विपुलपराक्रमशाली कृष्णः अपराजितया वृत्या कदाचिदप्यपराङ्मुखवृत्त्या मलीनविधेर्वशात् महासा हीनं दीनम् अबलम् दुर्बलम् यादवम् कंसभयादितस्ततो भ्रमन्तम् सबलम् बलसहितम् कर्ता अजनि सबलवि. धायको जात इत्यर्थः॥४०॥ अमृतमपि तन्मन्योर्दूरादभूदमृतवता
दमृतमदधात् स्वस्मिन्नेवं परात्मनि तुष्टये । अमृतरुचिवदेवोऽपूर्वो यशोऽनुदिशं नयदमृतनिधिना यन्मर्यादा ययौ ससुतां भुवम् ॥४१॥
अन्वयः-मन्योः अमृतत्रतात् तत् अमृतमपि दूरात् अभूत् अमृतम् स्वस्मिन् परात्मनि तुष्टये अधात् अपूर्वो देवः अमृतरुचिवत् यशः अनुदिशम् नयत् स अमृतनिधिना यन्मर्यादा तां भुवम् सु ययौ ॥ ४ ॥
व्याख्या-मन्योः मन्यते जनैरितिमन्युः मन्यतेरोणादिको युः तस्मात् जगन्मान्यात् अमृतव्रतात् अमृते मोक्षे प्रतं नियमो यस्य तस्मादमृतवतात अमृतम् अयाचितं वस्तु दूरादभूत् दूरङ्गतम् अया