SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-५ २६९ षितान्त:करणः परशुरगतिम् परस्मात् सूर्यते इति मुरा भावेऽप् तस्य गति मरणं लब्ध्वा आसाध अह इति खेदे सुखम् मुष्ठु खम्विषयेन्द्रियम् वैषयिकेन्द्रियवैधुर्य्यम् विलसति विषयसुखादिकमपि न लभते मृत्वा दुःखमापद्यत इति भावः ॥३९॥ खंविषयीन्दियमितिहैमः साधारणाभिधेयतया सर्वपक्षसाधारणमदो व्याख्यानम् ।। अतुलबलवान् मौनी वृत्त्या पराजितयाजनि जनितजनतानन्दो मन्दोदरीरमणे रते । किमुत महसा दीनं हीनं मलीनविधेर्वशात् सबलमबलं कर्ता रक्षोगणे शरणे रणे ॥४०॥ अन्वयः-अतुलबलवान् मौनी जनितजनतानन्दः अमन्दः दरीरमणे रते रक्षोगणे शरणे रणे मलीन विधेर्षशात् महसा दीनं हीनम् भबलम् सबलम् कर्ता अजनि ॥ ४० ॥ व्याख्या--अतुलबलवान् निरतिशयाध्यात्मिकशक्तिशाली मौनी मौनव्रतधारकः जनितजनतानन्दः जनित उत्पादितः जनतायाः जनसमूहस्य आनन्दः मुखं येन स अमन्दः अनलसः स्वाचारपरिपालनपटुः अपराजितया सर्वसहिष्णुतया वृत्त्या सर्वहितकारिकयेत्यर्थः दरीरमणे गिरिकन्दरारमणे रते अनुरक्ते रक्षोगणे शरणे राक्षसजने गृहे "शरणं गृहरक्षित्रोरित्यमरः" अरणे शब्दरहिते विषये पशुपक्ष्यादि. विषये अनुकूलेऽननुकूले वा विधिनिषेधरहिते किमुत किश्च महसा तेजसा हीनं तेजोहीनमत एव दीनं दुर्बलम् कुत इत्याकांक्षायामाह मलीनविधेदुरदृष्टस्य वशात् अधीनतः अबलम् निर्वलम् सबलम् रक्षाविधायकत्वात् बलवन्तं कर्ता अजनि अभूत् प्रभोः प्रभावात् परस्परविरोधपरिहारेण निर्बलोऽपि सबलो भवतीति भावः ॥ ४०॥ रामपक्षे-मन्दोदरीरमणे मन्दोदर्या रमणे रावणे रते अनुरक्त रयोगणे राक्षससमहे शरणे गृहे समीपे रणे संग्रामे मलीनविधेर्दुरदृष्टय
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy