SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २६८ महोपाध्याय श्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाग्ये कृष्णपक्षे----इन्द्रजितात्मना परमैश्वर्यमधिकृता कृष्णेन हरिरपि कालीयोऽपि कंससखा नागः परावृत्या बद्धः संयमितः वाताङ्गनः भीमसेनः प्रतिवासवम् वसु अस्यास्तीति वासबो नृपः तम् प्रति विपक्षनृपं प्रति दुर्योधनादिकमुद्दिश्येत्यर्थः शिरसि चरणाधानात मूर्ध्नि पदन्यासान् बक्रे विधौ वामे विधौ अदृष्टे सति वै इति वाक्यालंकारे देह्यने समुद्रदृशा समुद्रविजयवात्सल्य दृशा ईक्षितः अवलोकितः लघुरपि कनीयानपि भीमः गिरा बाचा सभयं भयभीतम् दुर्योधनादिकम् चक्रे विदधे ॥ ३८॥ सुमनसि मनोवृत्तिनव्योपकारविधौ भवेत् तदितरमनोवृत्ति व्यापकारविधौ भवेत् । परसुरगति लब्ध्वा पूर्वः सुखं विलसत्यहः परशुरगति लब्ध्वा पूर्वः सुखं विलसत्यहः(?)॥३९॥ अन्ययः -- नव्योपकारविधी सुमनसि मनोवृत्तिर्भवेत् नव्यापकारविधी तदितरमनोवृत्तिर्भवेत् पूर्वः परसुरगति लब्ध्वा अहः सुखं विलसति अपूर्वः परशुरगति लब्ध्वा अहः सुखम् विलसति ॥ ३९ ॥ व्याख्या-नव्योपकारविधौ नव एव नव्यः स्वार्थे यत् सचासौ उपकारश्चेति नव्योपकारः तस्य विधौ विधाने नूतनोपकारकरणे सुमनसि मुष्ठु मनो यस्मिन् तस्मिन् निर्मलान्तःकरणे मनोवृत्तिव्यापारो भवेत् निर्मलहृदय एव उपकारविधिः प्रवर्तत इति भाव: नव्यापकारविधौ नूत्नाऽपकारविधी विरोधविधौ तदितरमनोवृत्तिः तदितरस्मिन् कलुषितान्तःकरणे वृत्तिरभिनिवेशो भवेत् जायेत तथाहि पूर्वः सुमनसि मनोत्तिः परसुरगति लब्ध्वा परा अत्युन्नता या सुरगतिर्देवगतिस्ता लब्ध्वा देवगति प्राप्य सुखम् निरुपद्रवं यथास्यात्तथा अहः दिनम् विलसति गमयति अपूर्वः परः तदितरमनोतिः कलु
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy