________________
आचार्य श्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग - ५
सपदि सभयं चक्रे व विधौ दिनशङ्कया लघुरपि गिरा वैदेह्य समुद्रदृशेक्षितः ॥ ३८ ॥
अन्वयः - इन्द्रजितात्मना तदा परावृत्या हरिरपि बद्धः शिरसि चरणाधानात् प्रतिवासवम् वाताङ्गजः वक्रे विधौ दिनशङ्कया सपदि समयं चक्रे समुद्रशा गिरा वैदेह्यंगे लघुरपीक्षितः ॥ ३८ ॥
२६७
व्याख्या -- इन्द्रजितात्मना इन्द्र परमैश्वर्यम् जितः आत्मा यस्य स इन्द्रजितात्मा तेन जिनेन्द्रेण तदा परावृत्या पौनःपौन्येन हरिरपि कामोऽपि बद्धः निरुद्धः यदा यदा स प्रभवति तदा तदा प्रतिहतः कृत इति भावः शिरसि चरणाधानात् शिरसि मूर्ध्नि चरणस्य चारित्र्यस्य आधानात् स्वीकारात् "चरित्रं चरिताचारौ चारित्र्यचरणे ह्यपीतिहैमः " प्रतिवासवम् प्रतीन्द्रम् वाताङ्गजः आसन कम्पद्वारा देहकम्पः सपदि तदानीमेव सभयम् भयभीतम् चक्रे विदधे वक्रे विधौ दिनशङ्कया यदीयप्रभावेनासनकंपो जातस्तस्य वत्रे विधौ सति दिनशङ्कया छेदनशङ्कया तमवश्यं छेत्स्यामीति शङ्कया वै इति वाक्यालंकारे देाङ्गे देहिनामने लघुरपि शीघ्रमेव समुद्रदृशा अवधिज्ञानेन ईक्षितः दृष्टः कम्पनहेतुः अवधिज्ञानेन ज्ञात इत्यर्थः ॥
रामपक्षे - प्रतिवासवम् रावणप्रति शिरसि चरणाधानात् रावणमस्तके पादप्रक्षेपात् विजगीषुणा शत्रुनगरप्रवेशे प्रथमं दक्षिणपादन्यासो विधीयते स च शत्रुमूर्ध्नि पादन्यासो भवतीति युद्धशास्त्रवेदिदः, कृत्वामूर्ध्नि पदन्यासं, रावणस्य दुरात्मन इति वाल्मीकीयरामायणे" हरिरपि कपिरपि वाताङ्गजः हनूमान् इन्द्रजितात्मना मेघनादेन परावृच्या भूयो भूयः बद्धः संयमितः वैदेह्यंगे सीताङ्गे समुद्रदृशेक्षितः दीनदृष्ट्या सृष्ट: लघुरपि तुच्छोsपि दिनशङ्कया भयशङ्कया चक्रे विधौ सपदि समयं लङ्कावासिनं चक्रे विदधे ॥