________________
महोपाध्याय श्री मेघ विजयगणिविरश्चिते ससन्धान महाकाव्ये
पणकायतः विभीषणस्य कायतः वाक्यतः लोभक्षोमात् लोभस्य स्वात्मनि पुत्रादौ योऽभिनिवेशस्तस्य क्षोभात् प्रसरतः अथवा लोभः ममता क्षोभः भयादस्थैर्यचित्तचाञ्चल्यं तयोर्द्वन्द्रः तस्मात् रणविर - मणम् संग्रामनिवर्त्तनम् निजम् स्वीयम् अग्रजम् अग्रगण्यम् प्रभुमित्यर्थः देवं रावणम् जगुः निवेदयामासुः रामाद्युद्धं न विधातव्यमिति विभीषणमुखात् कथयामासुरित्यर्थः || ३७ ॥
२६६
कृष्णपक्षे – युद्धाय समागतं जरासंघ हंसको मन्त्री प्राप्तकालं निवेदयति सवितृतनय इत्यादि । सवितृतनये सूर्यपुत्रे कर्णे रामे बलरामे असते असमर्थे अप्रभवति रामसन्निधौ कर्णो न किञ्चित्कर इति भावः यद्वा रामेण परशुरामेण गुरुणा असक्ते युद्धसमये विद्याविस्मरणरूपदत्तशापे सति एतेन स कथंचिदपि युद्धाय न सक्त इति व्यज्यते परे महति हरेः कृष्णस्य तनुजे पुत्रे भुजे भुनक्तीति भुजस्तस्मिन् भोगशालिनि अथवा भुजे बले प्रसरति विलसति दौत्ये शोमकराजकर्तृकदूतक्रियायां अदित्याः देवक्याः सुताः कृष्णादयः भयभङ्गुराः भयं जरासन्धजन्यं त्रासं भङ्गुरयन्ति प्रतिनिवर्त्तयन्तीति तथा निर्भयाः सन्तीतिशेषः श्रुतिगत महानादाः आकर्णित कृष्णसैन्यसिंहनादाः लोभक्षोभात् लोभात् शरीरमोहात् क्षोभात् कृष्णेन सह संग्रामो मया कथं विधेय इति मनोदौर्बल्यात यद्वा अवश्यंभावी पराजय इति क्षोभात विभीषणका यतः अतिकृष्णत्वेन यद्वा भयजनकत्वेन कृष्णतः संग्रामविरमणम् युद्धनिवर्त्तनम् निजम् स्वकीयम् अग्रजम् अग्रगम् देवम् राजानम् जरासंधम् जगुः व्यजिज्ञपन् कथयामासुरित्यर्थः ॥ ३७ ॥
हरिरपि परावृत्त्या बद्धस्तदेन्द्रजितात्मना
शिरसि चरणाधानाद वाताङ्गजः प्रतिवासवम् ।