________________
माचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५ २६१ धृतवान अतः कृष्णस्य स्थितिः क्रयिकवाणिजामास्यादेव विदिता ज्ञाता। तिश्रुमुपगता दीव्यद्रूपा सुलक्षणलक्षिता,
सुरबलभृताम्भोषावद्रौपदीरितसद्गवी । सुररववशाद भिन्नाद द्वीपानतेन समाहृता,
हरिपवनयोधर्मस्यात्रात्मजेषु--पराजये ॥ ३६ ॥ __ अन्वयः --श्रुतिमुपगता दीव्यद्रुपा सुलक्षणलक्षिता सुरबलभृता अभ्भोधौ अद्रो पदीरितसद्गवी सुररववशात् भिन्नात द्वीपात् न तेन समाहृता हरिपवन. योधर्मस्य आत्मजेषु पराजये ।। २६ ॥
व्याख्या-श्रुतिमुपगता श्रुतिम् विख्यातिमुपगता प्राप्ता दीव्य. दूपा प्रकाशस्वरूपा स्वच्छेति यावत् सुलक्षणलक्षिता सल्लक्षणलक्ष्या सुरवलभृता सुराणान्देवानां यदलं तत् सुरबलं भरयाति अन्तर्भावि. तण्यर्थः देववद्धलप्रयोजिका अद्रौपदी अद्रौ पर्वते पद्यते उत्पद्यते इति अद्रौपदी गंगा सा अम्भोधौ इव समुद्रे इत्र इरितसद्गवी ईरिता गतिविषयीकृता या सद्गवी सती शोभना चासौ गौः पृथ्वी चेति तथा जिनेन्द्रविहारप्रचारपरिपूता भूमिः सुरवशात् सुष्टु राजन्ते इति सुराः नृपास्तेषां स्वः प्रार्थनाशब्दः तस्य वशात् तदनुकोल्यात भिन्नाव अन्यस्मात् द्वीपात् प्रदेशात् नतेन नभ्रेण समाहृता समानीता कमिन् इत्याह हरीति हरिः लक्ष्मीः पवनं पवित्रता तयोः लक्ष्मीशुद्धयोः धर्मस्य सुकृतेश्च आत्मजेषु प्रजावर्गेषु परं अत्युत्कृष्टं यजयं तसिन् अत्यु. स्मत्कटविस्तारायेत्यर्थः निमित्ते सप्तमी ॥ अथवा हरिपवनयोधर्मस्य पराजये अतिशयजयसंपादनाय आत्मजेषु कामेषु विषये पराजये निराकरणाय चेत्यर्थोऽपि श्लेषमहिना व्यज्यते ।।
रामपक्षे-श्रुति श्रवणं उपगता लंकायां वर्तते इति विदितसमाचारा दीव्यद्रूपा प्रद्योतमानस्वरूपा सुलक्षणलक्षिता सौभाग्यलक्षण -