________________
२६२
महोपाध्यायश्रीमेघविजयगणिविरचिते सससन्धानमहाकाग्ये
कस्य आत्मनः आलाभे सर्वतः प्राप्तौ सर्वत आत्मज्ञाने लब्धे अभवने अगृहे स पुण्यजने पवित्रजनसहिते कनेऽरण्ये रुचिः प्रीतिः अजापत इति शेषः हरोजनेन्द्रस्य लोकः लोकते पश्यतीति लोकः दर्शनकर्ता गुणैः प्रभुदर्शनजन्यमहिमभिः कं कं बलम् आत्मबलं विभवं समृद्धिश्च न अधृत नालभत अत: जिनेन्द्रस्य "सार्वविभक्तिकस्तसिल्" आस्थादेवमुखदर्शनादेव स्थितिमर्यादा विदिता क्रयिकवणिजाम् क्रयविक्रयव्यापारवतां वणिजाम् आस्यादेव इवार्थकोऽत्र एव शब्दः यथा तेषां मुखादेव केषाश्चिन्महार्यता केषाश्चित् समर्घता विज्ञायते तथा प्रभुमुखदर्शनादर्शनाभ्यां भवतीति भावः ॥
रामपक्षे–हरिपतिरते खेटात हरीणां पतिः हरिपतिः सुग्रीवः तसिन रतिः अनुरागो यस्य तस्मात् खेटात् खे आकाशे अटती तसादाकाशचारितः हनूमतेः लंकालामे लंकानाम्नि सपुण्यजने सयातुधाने " यातुधानः पुण्यजनो नैक्रतो यातु रक्षसीत्यमरः" बने अशोकवाटिकाख्ये रुचिरभवने मनोहरमंदिरे सीताविशुद्धिः सीताया रामपत्न्या विशुद्धिर्मार्गणम् अजायत हरेः सुग्रीवस्य लोकः रामस्यानुचरो वा गुणैः शौर्यादिगुणैः कं के बलं सामर्थ्य विभवं प्रकाशं न अधृत न धारितवान् तथाहि ऋयिकवाणिजां आस्यादेव मुखादेव हनुमन्मुखाद् स्थितिः जानकी स्थितिविदिता ज्ञातेति भावः ।।
कृष्णपक्षे-हरिपतिरतेः हरेः कृष्णस्य पतिः ज्येष्ठत्वेनाधिपतिः बलरामः तत्र रतिः राजविषयिका प्रीतिर्यस्य तस्मात् खेटात् आकाशचारितो दूतात् सीतायाः मदिरायाः विशुद्धिःशोधनम् अजायत अभवत् क इत्याह कम् जलम् आलभ्यते इति कालाभे जलपाये सपुण्यजने पवित्रजनसहिते अवने सुरक्षिते रुचिरभवने मनोहरगृहे हरेः कृष्णस्य पलस वा लोका गुणैः शौर्यादिभिः कं कं गुणं विभवश्च न अधृत न