________________
२६५
महोपाध्यायश्रीमेषविजयगणिविरचिते सप्तसम्मानमहाकाव्ये
वती असुरबलभृताम्भोधौ असुराणां राक्षसानाम्बलमेवाम्भोधिर्दुस्तारः सागरस्तस्मिन् अद्री पर्वते पदीव नदीव ईरितसद्गवी गमनविषयी भूताभूमिः यथा पर्वतनदी समुद्रगता सती पुनर्निर्गमनाऽयोग्या भवति तथेयमपि सीता राक्षससमुद्रगता पुनरावृत्तिदुर्लभैव जातेति भावः ॥ सुर इति सुरः ऐश्वर्य तस्य रववशात् गर्वतः ऐश्वर्यगर्वतः भित्रात् द्वीपात् नतेन कौटिल्येन "नतमाविद्धं कुटिलमिति हैमः" भिमात् द्वीपात् समाहता आनीता हरिपवनयोः धर्मस्य आत्मजेषु हरिः सूर्यः पवनो बायुः तयोः आत्मजः सुग्रीवो हनूमांश्च धर्मस्य आत्मजो रामः तेषु सुग्रीवहनुमद्रामेंषु विषये पराजये पराभवायेत्यर्थः॥ ___ कृष्णपक्षे-श्रुतिमुपगता श्रवणपथपथिकायमाना यद्वा श्रुतिम् नीतिशास्त्रमुपगताऽनुमृतादीव्यद्रूया दीप्तिदात्री ओजोगुणान्विता सुल. क्षणेन शब्दानुशासनलक्षणेन लक्षिता कृतानुसंधाना अथ च शब्दाल्पत्वेऽपि अर्थगरीयसी सुरवलभृताम्भोधा सुराणां देवांशभूतानां पाण्डवानां बलभृते प्रोत्साहने अम्भोधा मेघरूपा वेति वाक्यालंकारे द्रौपदीरितसद्गवी द्रौपदीकथितसद्वाणी सुररववशात् पाण्डववेगवशात् देवांशपाण्डवसंबन्धात् यद्वा तदनुसारतः भिन्नात् अन्यस्माद्वीपात् प्रदेशात् समाहृता तदानीं दुःखावस्थायामपि वीरमहितेव प्रोक्ता हरिपवनयोः धर्मस्य आत्मजेषु अर्जुनभीमयुधिष्ठिरेषु पराजये उत्कृष्टजयनिमित्ताय तेषु प्रोत्साहनमाधातुमित्यर्थः ।। ३६ ॥ सवितृतनये रामासक्ते हरेस्तनुजे भुजे,
प्रसरति परे दौत्येऽदित्याः सुता भयभङ्गुराः । श्रुतिगतमहानादा-देवं जगुनिजमग्रजं,
रणविरमणं लोभक्षोभाद्विभीषणकायतः ॥३७॥