________________
भाचार्य श्रीविजय मृत सूरिप्रणीता सरणी टीका. सर्ग-५ २५७ सीतामोचनप्रवृत्तः अनुशयमयात् दीर्घद्वेषरूपात् रत्नात् रत्नभूतात् निकटीभवन् रावणसमीपं गच्छन् जटी रत्नजटीनामविद्याधरः विद्याभ्रंशं खेचरत्वादिनिजशक्तिभ्रंशं विनाशं भेजे लेभे ॥
कृष्णपक्षे-काधीशा के शरीरे अधीष्टे इति काधीट् तेन काधीशा अत्यन्त सुन्दरेण प्रद्युम्नेन पथि गमनतः छलेन रुक्मिणी हरणसमये युद्धमार्गावतरणतः जटायुः टरयोः साम्यात् जरायुः जराकुमारे सत्यभामातनये आयुर्जीवनम् प्रेम यस्य स कृष्णः अवध्यत निरुध्यत समितिसमये दशाननकाण्डतः प्रद्युम्नबाणतः ध्वंसं पराभवं भेजे लब्धवान् अरक्षपिता हितः क्षिप्रविनाशितारिः अनुकृतिकरः स्वरूपं विहाय विजातीयरूपवान् प्रद्युम्नः विद्याभ्रंशं मायाभ्रंशं कृत्वा जटी सन् निकटीभवन् कृष्णसमीपं गतः - सन् अनुशयमयात् पश्चात्तापरूपात् रत्नात् शत्रुभित्र किमेनमयुध्य इति चिन्तया यत्नात् प्रेमात् अरक्षदित्यर्थः ॥ ३१ ॥
शिरसि चिकुरश्रेणी वेणीलतेव गुरोर्गिरे
स्तदनु सुभगा रेजे स्कन्धे पटीव पटीयसी । दिवमिव सखीं कर्तु प्रोच्चैः स्थितांहिनिनंसया, जलद पटलीवागाद् रागात्फणीवात[[नू ] नुरुचिः ॥३२॥
अन्वयः -- गुरोः शिरासे वेणीलतेत्र चिकुरश्रेणी तदनु सुभगा पटीयसी पटी स्कन्धे रेजे दिवम् सखीकर्तुमिव उच्चैः स्थिताः अंह्निनिनंसया अतनुरुचिः जलदपटलीव फणीव अगात् ॥ ३२ ॥
व्याख्या - गुरोः आदीश्वरस्य भगवतः शिरसि मूर्ध्नि चिकुरश्रेणी कुन्तलश्रेणी रेजे शुशुभे तामुत्प्रेक्षते वेणीति गिरेः शिखरिणः वेणीलतेव जलदपटलीव "वेणी केशरचना जलदपटलीति शब्दस्तोममहानिधिः" तदनु तदधोभागे स्कन्धे स्कन्धप्रदेशे सुभगा मनोज्ञा पटी