SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २५६ महोपाध्यायभीमेधाविजयगणिविरचिते सप्लसन्धानमहाकान्ये पथि गमनतो-लङ्काधीशा जटायुरवध्यत, समितिसमये ध्वंसं भेजे दशाननकाण्डतः । अनुकृतिकरो विद्याभ्रशं जटी निकटीभव न्ननुशयमयाद रत्नाद् यत्नादरक्षपिताहितः॥३१॥ मन्वयः-पथि गमनतो लंकाधीशा जटायुः अवध्यत समिति समये दशाननकाण्डतः ध्वंसं भेजे अनुकृति करो निकटीभवन् जटी अनुशयमयात अयस्नायू रस्नात् अरक्षपिताहितः विद्यावंसं भेजे ॥ ३१ ॥ व्याख्या-काधीशा के आत्मनि अधीष्टे इति काधीट् आत्मज्ञानी तेन जिनेन्द्रेण अलम् अतिशयम् पथि गमनतः मार्गे विहारतः जटायुर्जटां संघर्ति याति प्रामोतीति तथा संघात: अवध्यत नित्यविहारे कैश्चिन्मुनिमिः संघातः प्रेमाऽक्रियत समिति समये इर्यासमित्यादिकाले दशाननकाण्डतः कामदेववाणतः अध्वंसं भेजे अप्रतिहतो जातः यत्नात् संयमतः अरक्षपिताहितः अरम् शीघ्रम् क्षपिता निरा. कृतः अहितः शत्रुयन स कामक्रोधादिजेता अनुशयमयाद्यत्नात् शयमनुगतम् अनुशयम् हस्तगतम् अयमेवानुशयमयस्तस्मात् हस्तगतसंयमरूपरत्नात अविद्यायाः ममतायाः भ्रशं विनाशं लब्ध्वेति शेषः अनुकृतिकरः कायोत्सर्गविधायकः जटी निकटीभवन् वृक्ष इव सुखासुखस्पर्शनिवारणाक्षमो भवतीति शेषः ।। रामपक्षे-पथि गमनतः सीतामादाय मार्गे प्रसरतः समितिसमये संग्रामसमये लंकाधीशा रावणेन जटायुः अवध्यत सीतांप्रतिहत्तुं विक्रमन् पक्षी अहन्यतेति भावः कुत इत्याह दशाननकाण्डतः रावणबाणतः यत्नात् अरक्षपिताहितः लघुप्रतिहतरिपुः अनुकृतिकरः जटायुरिव
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy