________________
भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका, सर्ग-५
२५५
रामपक्षे-~-अथ अनन्तरम् हतः निहतो दण्डको यत्र तसिन् हनदण्डके वने विपिने सबलहरिणा बलवता हरिणा लक्ष्मणेन वि. धिवशात् अदृष्टवशतः स्थित्याः स्थानम् स्थितिरायुः तस्याः पूर्ती पूर्णे सति आयुषः पूर्ण सति विद्यासिद्धे सूर्यहासखड्गसाधकविद्याधिगते सति खरात्मनि खरपुत्रे "आत्मा वैजायते पुत्र इति श्रुतेः" शम्बूके निष्ठिते मृते सति समरे खरादिभिः सहेति शेषः संग्रामे भवति प्रर्वमाने स्वमनुजमिते रामे स्वं स्वकीयम् अनुजम् कनिष्ठभ्रातरम् इते गते रामे समस्याविद्यमानदशायां रक्षाप्रभुः रक्षसां पतिः रावणः स्वविमानधीः स्वस्मिन् विमाने रथे धीर्यस्य सःअमिथ्यामतिम् न मिथ्यामतिर्बुद्धिर्यस्थास्तां शुद्धमनस्कां वसुधाङ्गजाम् सीताम् जरु हृतवान् अथवा मिथ्यामतिम् इयमे भार्या भविष्यतीति बुद्धिमास्थायेति जडू हरतिस्म ।।
कृष्णपक्षे-सबलहरिणा सबलो बलवान हरति धैर्यमिति हरिः कामः सवलश्चासौ हरिश्चेति सबलहरिस्तेन बलवता कामेन प्रद्युम्नेन विद्यासिद्धे कनकमालाप्रदत्तगौरीप्रज्ञप्तिविद्याद्वयलब्धे सति विधिव. शात देवाधीनतः स्थित्याः समयस्य पूर्ती पूर्णे सति स्वकीयषोडशव. र्षपर्यन्तं मातृपितृवियोगरूपशापस्य अथवा समयस्य आयुषः पूर्ती खरात्मनि खरः दुष्टः आत्मा यस्य तस्मिन शम्बरे निष्ठिते मृते सति रक्षाप्रभुः रक्षासु राक्षसेषु प्रभवति इति रक्षाप्रभुः प्रयुम्नः समरे समः गीतवाद्ययोरेककालभवो गायकहस्तादिचालनरूपस्तालस्तं राति गृहातीति तस्मिन् गीतवाद्यादिमहोत्सवे भवति विद्यमाने वसुधाङ्गजाम् वसु तेजो दधातीति वसुधो दुर्योधनस्तस्याङ्गजां तनयां जडू हृतवान् स्त्रविमानधीः स्वविमाने आकाशगमनादौ धीः यस्य स रामे बलरामे अनुजम् कृष्णमिते गते स्वम् स्वयमेव अमिथ्यामति रामकृष्णौ प्रति पूज्यबुद्धिम् विदधे इति शेषः ॥ ३० ॥