________________
२५४ महोपाध्यायश्रीमेषविजयगणिविरचिते सप्तसम्भानमहाकाव्ये अथ विधिवशात् स्थित्याः पूर्ती बने हत-दण्डके,
___ सबलहरिणा विद्यासिद्धे खरात्मनि निष्ठिते । भवति समरे जह्वे रक्षःप्रभुर्वसुधाङ्गजां,
खमनुजमिते रामे मिथ्यामति स्वविमानधी॥३०॥
अन्ययः- अथहतदण्डके वने सबलहरिणा विधिवशात् स्थित्याः पूतौं विद्यासिद्धे खरात्मनि निष्ठिते समरे भवति स्वमनुजमिते रामे रक्षःप्रभुः स्वविमानधीः अमिथ्यामतिं वसुधांगजाम् जहे ॥ ३० ॥
व्याख्या-अथ अथानन्तरं हतदण्डके दण्डयति बिभीषति इति दण्डक: भयकारकः हतः निरस्तः दण्डको यत्र तस्तिन जिनेन्द्रागमनप्रभावात् पारस्परिक विरोधोऽपि शान्त इति भावः निर्भये वनेऽरण्ये विधिवशात् विधिपूर्वकं स्थित्याः धारणायाः मुक्तरित्यर्थः " मर्यादा. धारणास्थितिरिति हैमः" पूर्ती पूर्ति निमित्ताय मुक्तिनिमित्तायेति तत्वम् सबलहरिणा हरति पापमिति हरिः सबलशासौ हरिश्चेति सब. लहरिस्तेन विद्यासिद्धे अध्यात्मज्ञानसिद्धे सम्पन्ने सति अत एव खरास्मनि निष्ठिते कामे प्रतिहते वसुधांगजाम् वसु कृष्णतान्दधातीति वसुधा चासौ "वसुरयामे इति शब्दस्तोममहानिधिः” कृष्णा अङ्गना कबरी चेति वसुधाङ्गजा तां जहे हृतवान् लुलुचे समरे समम् समतां राति अर्पयति सर्वत इति समरस्तसिन् समरे समभावे भवति प्रसरति रक्षा प्रभुः रक्षतीति रक्षाः तत्र प्रभुः रक्षणैकरवणः स्खविमानधीः विगता मानोऽहंकारो यस्यां सा विमाना सा चासो धीति विमानधीः स्व. लिन स्वशरीरे विमानधीर्यस्य स तथोक्तः देहाभिमानरहितः खमनु. जमिते रामे खस्य मनुमन्त्रं विचारशक्तिः तस्माजातः स्वमनुजः स्व. स्वविचारजातः तेन मिते अनुमिते रामे आत्मानन्दानुभवे अमिथ्या. मतिम् निर्मलां दृदां बुद्धिम् चक्रे इति शेषः ।।