________________
भाचार्य श्री विजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५
न दृष्टः लक्ष्मणलक्षितश्चलक्ष्मणेन राज्ञा न लक्षितः नयनगोचरी कृतः अभूत् जातः स्वरुचेः स्वतो रोचमानस्य शुचेः परिशुद्धस्य अवनिधनिकस्य पृथ्वीपतेः बाहुबलिनः उच्चैः क्रामन् अधिकं गच्छन् खरसुतहरः कामविनाशकः सुधीः तत्वज्ञः काप्येवं प्रमादपरः स्यात् न स्यादित्यर्थः सायं प्रभुर्बाह्योद्यानमागत इति उद्यानपालेन निवेदितः प्रातर्यायता सपरिवारो गच्छति बाहुबली तावता प्रभुर्विजहारेति राज्ञः प्रमादपरत्वं, न कदाचिदपि प्रभुः प्रमाद्यतीति भावः । अर्थान्तरन्यासः || २९ ॥
२५३
अन्य जिनेन्द्रपक्षे – मधुरबहली भागस्थायी मनोज्ञनिर्मलदेशस्थः बाहुबली संयमसामर्थ्यवान् न क्षितः स्वसंयमात् न स्खलितः प्रातः परिपूर्णः भ्रान्त्या भ्रमणेन लक्ष्मणेन खचिन्हेन लक्षितः न इति न किन्तु लक्षित एव खरसुतहरः पराजितकामः प्रमादपरः प्रमादात् अनवधानात् परः दूरवर्ती अप्रमादी सुधीः सुष्ठु आत्मानुभववान् काप्येवं स्यात् कश्विदेवं भवेत् अवनिधनिकस्य अवनमेवावनिः स एव धनं यस्य तस्य दयाधनिकस्येत्यर्थः शुचेंः शुद्धस्य स्वरुचेः स्वस्मिन् आत्मनि रुचिर्यस्य तस्य संम्वन्धी क्रामन् गच्छन् उच्चैरभूत् ॥ एवं कृष्णपक्षेऽप्यवसेयम् ॥ २९ ॥
रामपक्षे -- मधुरबहलभागस्थायी निर्मल परिस्कृतप्रदेशस्थः बाहुली न क्षितः न केनापि हतः अनुपदं रामस्य अनुसरणम् भ्रान्त्या भ्र मणेन लक्ष्मणकक्षितः न लक्ष्मण इति यथार्थनामा यथा लक्ष्म कदाचिदपि न व्यभिचरति तथायमपि रामस्यानुचर इति भावः अवनिधनिकस्य पृथ्वीपतेः शुचेः परिशुद्धस्य खरुचेः खतः शोभमानस्य उच्चैः क्रामन् अतिशयमनुसरन् अभूत् खरसुतहरः शम्बूकनिहन्ता सुधीः बुद्धिमान् काप्येवम् कुतोप्येवं प्रमादपरः स्याचैव स्यादित्यर्थः ॥ २९ ॥