SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २५२ महोपाध्यायश्रीमेघविजयगणिविरचिते समसन्धानमहाकाणे नृपे अभ्यणे सन्निधौ समेयुषि जरासंघसहाय्याय प्राप्ते सति प्रगुणित. महामंत्रैः प्रयोजितकर्तव्यावधारणजनकरहस्यविचारैः तंत्रैः इति कर्तव्यताप्रयोजकव्यापारः कथाश्रुताः स्वपरम्परायौनसंबन्धिनः कृष्णादय इति श्रुताः कैश्चिजनैः कथिता निधाय मुक्त्वा परित्यज्य मलिनहृदया कृष्णसंबन्धेन युधिष्ठिरराज्यं प्रत्यपणीयं भवेदिति कलुषितान्तःकरणाः गांधारेयाः धार्तराष्ट्राः प्रतिमाधवं जरासंधं ययुः संश्रिताः ॥ रामपक्षे-येषां रामादीनाम् अरिपरिणतिः पूर्वा न वा सहजातिगा तस्मिन् रामे वाग्भरे वामात्रेण कणेऽभ्यणे समीयुषि समागतेः समुद्रपारे स्थिते प्रगणितमहामंत्रैः तंत्रैः प्रयोजितस्वपरराष्ट्रविज्ञानविचक्षणः स्पर्शः सद्भिः गांधारेयाः वार्ताहारकाः मलिनहृदयाः छमनापरराष्ट्र विचारधारकाः चाराः कथाश्रुताः आकर्णिताः परराष्टी. याः कथानिधाय कणे कृत्वा प्रतिमाधवं रावणं ययुः यदा रामः समुद्रतटासन्न आसीत्तदा रावणः स्वारान् प्रेष्य सर्ववृत्तान्तमज्ञासीदिति तात्पर्यम् ॥ २८ ॥ मधुरबहलीभागस्थायी न बाहुबलीक्षितः, । प्रभुरनुपदं प्रातन्त्यिा न लक्ष्मणलक्षितः। अवनिधनिकस्याच्चैः कामन् शुचेः स्वरुचेरभूतु, खरसुतहरः क्वाप्येवं स्यात्प्रमादपरः सुधीः ॥२९॥ अन्वयः-मधुरबह ली भागस्थायी बाहुबलीक्षितः न प्रातः अनुपदं श्रात्या लक्ष्मणलक्षितो अवनिधनिकस्य शुचेः स्वरुचेः उचैः क्रामन् खरसुतहरः भभूत् सुधीः काप्येवं प्रमादपरः स्यात् ॥ २९ ॥ - व्याख्या-मधुरबहलीभागस्थायी मधुरो मनोज्ञो यो बहलीभागः नगरबाह्योद्यानभूभागः तत्र स्थायी प्रभुर्जिनेन्द्रः आदीश्वरः प्रातः प्रभाते अनुपदं भ्रान्त्या तत्क्षणगमनेन न बाहुबलीक्षितः बाहुबलिना
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy