SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २५८ महोपाध्यायनीमेघविजयगणिविरचित मसाधानमहाकाव्ये यसीव पटुतरेव पटी पटभेदः रेजे दिवमिव सखीं कत्तुं प्रोः स्थिता खर्गसख्यमुपगन्तुमिव उन्नतस्थानस्थिता अहिनिनंसया चरणनमने. च्छया अतनुरुचिः अतिशयकान्तिः निबिडच्छविः जलदपटलीच घनसंहतिरिव वा अथवा फणीव कृष्णसर्पसंहतिरिव अगात् अयासीत् उत्प्रेक्षालङ्कारः स्फुटं प्रतिभातीति ॥ रामकृष्णपक्षसाधारणमेतद् ॥ ___अन्यतीर्थकृतां पक्षे----गुरोः जिनेन्द्रस्य गिरेः प्रबजितपर्वतस्य शिरसि उर्ध्वप्रदेशे चिकुरश्रेणीव कचपंक्तिरित वेणीलता कुटिलनदी रेजे भातिस्म तामेवोत्प्रेक्षते स्कन्धे स्कन्धप्रदेशे सुभमा मनोहरा पटीयसी पदवी पटीव अन्यत् पूर्ववत् ॥ ३२॥ हरिचरसुरास्थाने नागःसशम्बलकम्बलः, प्रभुमनुचरन्नावि-स्थित्या सुखं चकृवान भृशम् । स्थितमुपवने सौभद्रेयोऽप्यविक्रिययान्वयात्, कतिचन समास्तेन स्वामी विहारमचीकरत् ॥३३॥ भन्वयः- हरिचरसुरास्थाने स शम्बलकम्बलः नागः प्रभुमनुचरन् नाबि स्थित्या भृशं सुख चकृवान उपबने स्थितं अविक्रियया सौभद्रेयः अपि अन्वयात् तेन स्वामी कति चनसमा: विहारमचीकरत् ॥ ३३ ॥ व्याख्या-स प्रसिद्धः नागः शम्बलकम्बलःशं कल्याणम् वलयति वर्धयतीति शम्बलः कम् सुखं च वलयतीति कम्बलः स्वकीयकल्याणमुखकारकः नागः श्रेष्ठः स्वात्मकल्याणविधायकत्वात् सौभद्रेयः सुभद्रायाः कल्याणगुणविशिष्टाया अपत्यम् सौभद्रेयः सुभद्रातनयः हरिचरसुरा. स्थाने चर्यते इति चरः हरजिनेन्द्रस्य चरः चरणम् विहरणमित्यर्थः तदेव सुरास्थानम् तीर्थस्थानम् तसिन् तीर्थभूते उपवने बाह्योद्याने आवि मनोहरे अथवा स्वबुद्धौ स्वकीयाभ्युदये स्थित्था स्वाभ्युदयका
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy