________________
२५८ महोपाध्यायश्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाग्वे गुणेन च सन्निभं सजनजनसदृशं नाथं नाचते याचते इति नाथस्तं याचमानं तमपि भगवान् जिनेश्वरः भित्वा अज्ञतां परिहृत्य पूर्व पदं श्रावकत्वं उपलम्भयन् अनुमोदयन् अमुस्थितमानसः स्त्रात्मानुभवस्थितचित्तः कतिपयदिनान् कतिचिद्वासरान् तत्रैवास्थात् तत्रैवस्थितोऽभूदित्यर्थः ॥ २६ ॥
श्रीपार्श्वनाथपक्षे-परपरिचयात् परे पूर्वजन्मनि यः परिचयः संबन्धः तस्मात् अन्योऽपि साम्प्रतमन्यशरीरगतोऽपि आपत्कृत् उपसर्गप्रयोजकः अत एव आहवनाशनः आहूयन्ते आत्मा अत्र स आहवः आत्मचिन्तनं तस्य नाशनः विराधकः शुचिपरिगतं अतिनिर्मलं कान्त्या गुणेन च सन्निभं सदृशं यत्राकृतिस्तत्र गुणा वसन्तीति आकृत्या गुणेन च कृतार्थ नाथ पार्श्वनाएं आपत् कृत् उपमर्गजनको जात इति शेषः तमपि विराध्यातमपि मेघमालिकुमारकृतोपसर्ग भित्वा निश्चलचित्तेन सहित्वा पूर्व पदं स्वकीयदेवस्थानं उपलम्भयत् न च विराधिनं प्रतिविरोधबुद्धिरभवत् अन्यत् पूर्ववव्याख्येयं ॥
श्रीमहावीरपक्षे-परपरिचयात् परेण अन्येन कृतो यो परिचयो यथार्थस्तवस्तस्मात् इन्द्रप्रयुक्त श्रीमहावीरतपोवर्णन श्रुत्वा संगमदेवस्तं परीक्षितुमुपसगं विदधौ अन्योऽपि निरपेक्षोऽपि आपत्कृत् आहवनाशन इत्यादि पार्श्वनाथपक्षपद् व्याख्येयं ।।
रामपक्षे-कदाचित्सुन्दसहिता चन्द्रणखा पाताललंकायां राज्यं पालयन्ती रामसाहाय्येन पूर्ववैरीविराधो युद्धं विधाय निष्कासयतां सपुत्रां सा च लंकां गत्वा रावणाय व्यजिज्ञपदित्याक्षिप्याह परपरिचयादिति । आहवनाशनः आहवे संग्रागे शत्रु नाशयति हिनस्तीति स परपरिचयात् स्वीपशत्रुपरिचयात् तत् कृतोपजापात् अन्योऽपि उदासीनोऽपि आपत्कृत् विपनिजनको भवतीति शेषः शुचिपरिगतं