SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजथामृतसूरिप्रणीता सरणी टोका. सर्ग-५ २५० धर्षणरूपं साहसकारकं बाणाहवेन बाणासुरसंग्रामेन जित्वा बाणं परा: जित्य तं लब्ध्वा उद्यतताग्या चन्द्रमिव उपया नवपरिणीतया सहितं अकरोत् भानोरित्यत्र विभक्तिविपरिणामेनान्वयः भानु भानुनामानं सत्यभामातनयं निजागा या दुर्योधन कन्यया सहितं अकरोत् देहली. दीपन्यायादुभयत्रान्वयः द्वारावत्याः द्वारकायाः सकलनगरे प्रधाना. प्रधाननगरे भवनेषु सद्मसु प्रभा कान्तिः अभात् अदीप्यत ॥ रामपक्षे-ससाहसं सुग्रीवरूपं विधाय ताराभिलापरूपसाहसयुक्तं कमनजनक कामपरतन्त्रं बाणाहवेन जित्वा शरसंग्रामेन पराजित्य उद्यततारया सहित साक्षाचन्द्रमिव खचरं आकाशगामिनं भानोः सूर्यस्य तनयं मुग्रीवं निजाङ्गनया तारया सहितं अकरोत् व्यधात् सकलनगरे किष्किंधापुरे भवनेषु गृहेषु द्वारावत्याः द्वारकायाः प्रभा कान्तिः अभात् शोभतेस ॥ २५ ॥ परपरिचयादन्योऽप्यापतकृताहवनाशनः, शुचिपरिगतं नाथं कान्त्या गुणेन च संनिभम् ॥ तमपि भगवान् भित्त्वा पूर्व पदं ह्युपलम्भयन् , कतिपयदिनांस्तत्रैवास्थादसुस्थितमानसः ॥२६॥ अन्धयः -- आहवनाशनः अन्योऽपि परपरिचयात् आपत्कृत् शुचिपरिगतं कान्त्या गुणेन च सन्निभम् नाथम् तमपि भित्वा भगवान् पूर्व पदं झुप. लम्भयन् असुस्थित मानसः कतिपयदि नान् तत्रैवास्थात् ॥ २६ ॥ व्याख्या-परपरिचयात् परस्य श्रेष्ठजनस्य परिचयात् संगात् अन्योऽपि अनोऽपि सदसद्विवेकरहितोऽपि आपत्कृताहवनाशनः आपदं करोतीति आपत् कृत् स चासौ आवश्चेति आपत्कृताहवः तन्नाशयति परित्यजतीति तथोक्तः ज्ञानिजनसंसर्गान्मूढोऽपि हिंसादिकं परित्यजति इति भावः शुचिपरिगतं अत एव शुद्धतामुपगतं कान्त्या
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy