________________
२४६ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये खचरमचिराद् भानोः सूनुं निजाङ्गनया ततः,
सकलनगरे द्वारावत्याः प्रभा भवनेष्यभात् ॥२५॥
अन्वयः-स साहसं कमनजनकं बाणाहवेन जित्वा उद्यततारया सहित साक्षाचन्द्रमिव भानोः सूनुं खचरं निजाङ्गनया सहितम् ततः सकलनगरे भवनेषु द्वारावत्याः प्रभाः अभात् ॥ २५ ॥
व्याख्या-उद्यततारया उद्यता प्राप्तोदया या तारा तया सहितम् संगतम् साक्षाचन्द्रमिव कमनजनकम् कम्यते इति कमनम् अभिलाषः तजनयतीति कमनजनकः संभोगेच्छोत्पादकस्तम् चन्द्रस्यापि कामोदीपकत्वात् तत्सहचरत्वाच्च अथवा अनजनकम् नास्तिजनको यस्य स अजनकस्तन्न भवतीति अनजनकः अनेकजनकः असंख्यातपितृकः वम् कम् कमपि कामम् ससाहसम् साहसेन सहितम् अबाणाहवेन वाणयुद्धं विना आभ्यन्तरिकसंयमबलेन जित्वा पराजित्य अथवा उद्यततारया देदीप्यमानरजतेन रौप्येन सहितम् चन्द्रम् काञ्चनश्च. जित्वा " स्याद्रूपं कलधौतताररजतश्वेतानिदुर्वणकम् इति तपनीयचामीकरचन्द्रभर्मेत्युभयत्र हैमः " खचरम् खं सुखमानन्दश्चरति अनुभवतीति अथवा खे परमात्मनि स्वात्मानन्दानुभवे चरति विचरतीति तम् आत्मज्ञानिनम् भानोः प्रभायाः सूयते इति सूनुः तम् प्रभोत्पादकम् स्वस्वरूपमित्यर्थः निजाङ्गनया निजस्य स्वीयस्य या अङ्गना बुद्धिस्तया निजबुद्ध्या सहितम् अकरोत् स्वखरूपन्निजप्रवृत्त्यधीनमकरोदित्यर्थः सकलनगरे नगम् पर्वतम् रातीति नगरम् वनम् कलेन मधुरा. व्यक्तशब्देन सहितम् सकलम् तच्च नगरञ्चेति तस्मिन् अथवा सकलनगरे यत्र यत्र प्रभुर्विहरति तसिन् भवने गृहे द्वारावत्याः द्वारकायाः प्रभा शोभा अभात् भातिस्म ॥
कृष्णपक्षे-कमनजनकम् कमनः कामः प्रद्युम्न इत्यर्थः जनकः पिता यस्य स कमनजनकः अनिरुद्धः तं ससाहसं बाणासुरकन्या