________________
आचार्य श्री विजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५
सुतः तनयः ऋषभादिः प्रतिहरिवचोयोगात् प्रतिहरेर्ब्रह्मलोकान्तवासिदेवादेः वचोयोगाद दीक्षाग्रहणसमयस्मारकवाक्यात् दुर्योधनादिनिमन्त्रितः दुर्योधनादिः कामक्रोधादिनिमन्त्रितो निरुद्धो येन स अत एव नवसाहसः नूतनसाहसिकः अभूदिति शेषः कामश्चिन्तयति विभो रिति विभोजिनेन्द्रप्रभोः सेना आभ्यन्तरसंयमादिदृढबलम् अस्माकं इति शेषः नाशं नयति नो किम् नो नयति किन्तु अवश्यमेव नेष्यतीति भावः वर्त्तमानसामीप्ये लट् अतः दृढसंयति स्थिरसंयमे जिनेन्द्रे इत्यर्थः पुरः प्रथममेव योधात् संग्रामात् पूर्वमेव सोधात् सोद्योगात् रिपुवारणम् सैन्यनिवारणम् अतितराम् कृतम् ॥
२ ४५
कृष्णपक्षे -- प्रतिहरिवचोयोगात् जरासंधवचनप्रयोगात् दुर्योध नादिनिमन्त्रितः कृतनिमंत्रणकः कृतः कर्मधारयः सवितुः सूर्यस्य सुतः तनयः तारासक्तः तरति शत्रुपारं गच्छत्यस्मिन्निति तारो युद्धम् तत्रासक्तः संग्रामप्रियः अत एव नवसाहसः नूतनसाहसी कर्णः विभोः कृष्णस्य दृढसंयति संग्रामे सेनानाशं कृष्णसेनाक्षयं किमु नो नयति नेष्यति अवश्यमेव नेष्यतीत्यर्थः सोधात् सोद्योगात् योधात् संग्रामात् पुरः प्रथमं रिपुवारणम् शत्रुरोधम् अतितराम् कृतम् विरचितम् ॥
रामपक्षे - प्रतिहरि हरिम् कपिम् प्रति यो वचनयोगः सन्देशप्रेषणम् तस्मात् प्रतिहरिवचोयोगात् कपिद्वारा संदेशप्रेषणात् दुर्योधनादिनिमन्त्रितः दुर्योधनादौ कष्टयुद्धादौ निमन्त्रितः कृताह्वानः सवितुः सूर्यस्य सुतः सूर्यवंशीयत्वात् तत्तनयः तारासक्तः संग्रामप्रियः नवसाहसः रामः विभोः मायासुग्रीवस्य दृढसंयति महत्संग्रामे तस्य सेनानाशं किमु नो नेष्यतीत्यादि पूर्ववद्योज्यम् ॥ २४ ॥ कमनजनकं जित्वा बाणाहवेन ससाहस,
सहितमकरोच्चन्द्रं साक्षादिवोद्यत तारया ।