________________
२४४
महोपाध्याय श्रीमेघविजयगणिविरचिते सप्तसम्धानमहाकान्ये
रामपक्षे-प्रतिहरिः प्रतिवासुदेवोस्तस्य जरासंधादेशात् दृहप्रतिज्ञानुरोधात जना राक्षसलोकाः गृहाणि स्ववेश्मानि युद्धार्थमुद्युक्ताः, सन्तः स्वकीयवासस्थानानि जहुस्तत्यजुः परे केचन विभीषणादयः दशमुखभिया दशकण्ठभयेन रावणकृतानादरभयतः शत्रोः ग्रामात शत्रुभूतरावणनगरात् बहिनि:सृत्येति शेषः व्रतम् नियमम् रावणप. रित्यागरूपम् जगृहुः स्त्रीचक्रुः स्वजनविरहात् स्वजनस्य विभीषणादे. विरहाद्वियोगात् अन्ये विभीषणदारादयः मुहुः पुनः पुनः मुमुहुः मुह्यन्तिस्म तथा च ते विभीषणादयः मुनिगुरुगिरा मुने रामस्य तदानीम्बनवासकाले कतिचिव्रतधारकत्वेन तथा निर्देशः यद्वा मनुते स्वकीयत्वेन स्वीकरोतीति मुनिः स चासौ गुरुश्चेति मुनिगुरुस्तस्य गिरा वचनेन अथवा गुर्वी चासौ गीश्चेति गुरुगीः मुनेर्गुरुगीरिति मुनिगुरुगीस्तया अत्यादरणीयरामवचनेन स्त्रीयान् स्वकीयान् परिजनान् आदाय गृहीत्वा दरम् पर्वतकन्दराम् यद्वा दरम् श्वभ्रम् रक्षणस्थानम् समारुरुहुः संगताः दरोऽस्त्रियां भवे श्वभ्र इत्यमरः॥ श्लेषालंकारः।।२३॥ प्रतिहरिवचोयोगाद् दुर्योधनादिनिमन्त्रितः,
सवितुरचिरात्तारासक्तः सुतो नवसाहसः । किमु नयति नो सेनानाशं विभोदृढसंयति,
कृतमतितरां योधात्सोऽधात् पुरो रिपुवारणम्॥२४॥
अन्त्यः-प्रतिहरिवचीयोगात् दुर्योधनादिनिमन्त्रितः सवितुर्विभोः तारा. सक्तः नवसाहसः सुतः दृढसंयति सेनानाशं किमु नयति रिपुनिवारणम् अतितसंकृतम् योधात् स पुरोऽधात् ॥ २४ ॥
व्याख्या-सवितु भ्यादेनकस्य तारासतः तारासु कनीनिकासु आसक्तः अत्यन्तलोचनप्रियः "तत्तारा तु कनीनिकेति हैमः"