SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग - ५ प्रतिहरिजरासन्धादेशाद् गृहाणि जहुर्जना, दशमुखभिया शत्रोग्रमात् परे जगृहुर्व्रतम् । स्वजनविरहादन्येऽवन्यां मुहुर्मुमुहुस्तथा, २४३ मुनिगुरुरादाय स्वीयान् समारुरुहुर्दरम् ॥२३॥ अन्वयः -- जनाः प्रतिहरिजरासंधादेशात् गृहाणि जहुः परदेशमुखभियाशर्मामात् व्रतं जगृहुः अन्ये स्वजनविरहात् भवन्याम् मुहुर्मुमुहुः ।। २३ ।। व्याख्या - हरति पापमिति हरिजिनेन्द्रः तम् इति प्रतिहरिजिनेन्द्रम्प्रति जनाः भव्यलोकाः जरासंधादेशात् दृढ़प्रतिज्ञाबलतः गृहाणि वेश्मानि जहुः तत्यजुः दृशमुखभिया दशसु इन्द्रियेषु मुखं प्रवृत्तिर्यस्य स कामः अथवा दशसु अवस्थापरिणामेषु मुखं प्रवृत्तिर्यस्य तत् कर्म तस्य भिया भयेन कर्मभयेन च शत्रोः तस्यैव ग्रामात् आयत्तात् व्रतम् चारित्र्यम् परे केचन जगृहुः गृह्णन्तिस्म अन्ये अवन्याम् भूमौ स्वजनविरहात् मुमुहुर्मोहमुपगताः मुनिगुरुगिरा मुनिरेव - गुरुरुपदेशकस्तस्य गिरा वचनेन स्वीयान् स्वकीयान् आदाय गृहीत्वा दरम् कन्दराम् आरुरुहुः समं विहरन्ति स्मेति भावः ॥ कृष्णपक्षे-जनाः लोकाः प्रतिहरिजरासंधादेशात् प्रतिहरिश्वासौ जरासंधचेति तस्य आदेशात् आज्ञातः गृहाणि स्ववेश्मानि जहुस्तत्यजुः रणा सज्जा बभूवुरित्यर्थः दशमुखभिया दशसु मुखन्निर्गमनं यस्य तस्य बाणस्य भिया भयेन शत्रोग्रमात् शत्रुग्राममभिव्याप्य व्रतम् यावन्न शग्रामं गमिष्यामि तावन्नभोक्ष्ये न विश्रमिष्ये वेति नियमं जगृहुर्धारिताः खजन विरहात् युद्धाय गतपतिपुत्रादिविरहात् विश्लेषात् अवन्यां भूमौ मुहुर्मुहममुपगताः इतश्च ये भीरवस्ते मुनिगुरुगिरा सद्बुद्धि वदुपदेशक वाक्येन स्वकीयान् स्त्रीचालकादीन् आदाय दरम् पर्वतकन्दरम् आरुरुहुस्तत्र जग्मुः ॥
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy