________________
२४२
महोपाध्याय श्री मेघ विजयगणिविरचिते सप्तसन्धान महाकाव्ये
त्यर्थः तदेवार्थान्तरेण दृढयति सर्वासाम् अपाम् जलानाम् अपानिधिरेव समुद्र एव दिग् गमनदिग् भवति समुद्रे गत्वा नितान्तसुखनो गमनागमनादिशोषणबन्धनादिदोषरहिताः स्याम इति आपस्तदुन्मुखा गच्छन्ति एवं बुद्धिमन्तः सत्पुरुषपरिपूतम्मोक्षमार्गमेव तथाभूतमनुसरन्तीति तत्वमर्थान्तरन्यासेन प्रकटितम् कविना ॥
रामपक्षे - खरविशरणात खरस्य स्वभगिनीपतेर्विशरणात् हननात् सागस्कृन्नरं अपराधकारिणं मनुष्यं हतदूषणम् दूषणनिहन्तारम् पुनरपि भूयोऽपि तथा कुर्वाणं विराधयन्तं कः बलवान् नृपः प्रभुत्वसम्पन्नो नराधिपः त्यजेत् परिहरेत् मुश्चेत् न कोऽपीत्यर्थः इति इत्थं त्रिशता विचारयता अनेन रावणेन क्रियाव्यपदेशता क्रियायाः व्यापारस्य व्यपदेशता छयूनता अधायि कापट्यं अप्रयोजि तथाहि सर्वासामपां अपां पतिः निधिरेव दिग् भवति यथा जडप्रकृतिरपान्निधिर्नीचैर्गच्छति तथा मन्दबुद्धिरपि नीचवृत्तिं कापट्य आश्रयतीति भावः ॥ दृष्टान्तालंकारः || २२ ॥
कृष्णपक्षे खरविशरणात रलयोक्यात् खलविशरणात् खलनिग्रहणात् बलवान् नृपः जरासंधः कंसागस्कृन्नरम् कंसे स्वजामातरि आगः अपराधम् पापम् वा करोतीति कंसागस्कृत कंसापराधी स चासौ नरश्वेति कंसागस्कृन्नरम् नरमात्रोपादानेन तस्मिन् तुच्छत्वं सूचितम् हत दूषणम् प्राप्तदूषणम् हन्तेर्गमनार्थत्वेन प्राप्त्यर्थत्वात् स दोषम् पुनरपि भूयोऽपि तथा कुर्वाणम् अपराधमाचरन्तम् न च शरणागतमितिध्वनिः कः त्यजेत् परिसहेत् उपेक्षेत इति विमृशता विचारयता अनेन जरासंधेन क्रियाव्यपदेशता वृद्धोद्योगता अयायि व्यारचि अपाम् सर्वासामपि अपानिधिरेव दिग् भवति न कोऽपि सामान्यं स्वकीयशत्रु परिहरति एकान्तविश्रामकामुकत्वादिति भावः ॥ २२॥