________________
माचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका, सर्ग-५ २४१ कृष्णपक्षे-रिपुरतिवशः शत्रुविषयकमन्युपरतंत्रः पुत्रः यवना. दिभिः इभाश्वपदातिना गजतुरमादिसेनया च व्याप्तः परिवृतः विद. लितमतिः शत्रुकृतापराधस्मरणात् क्षुब्धचित्तः धुर्यां शत्रुजनितधर्षणसहनयोग्यायां पुर्या रुषं मानं जगृहे गृहीतः अनयचलनात् अनपराधकृतागस्काखेतोः कंसध्वंसं कसं कंसनामानं नृपं ध्वंसयति स कंसध्वंसस्तम् कृष्णं प्रपद्य न पीडयेदिति न किन्तु अवश्यमेव पीडयेत् यथा तथा तमासाद्य वैरं निर्यापयेदिति गुरुगिरा नृपाज्ञया जरासंधादेशेन स सिन्धुः तात्स्थ्यात्तच्छन्दम् , समुद्रान्तस्थः कृष्णः शिश्रिये सैन्येरिति शेषः सैन्यमावृणोत्तमिति भावः ॥ २१ ॥ खरविशरणात् कं-सागस्कृन्नरं हतदूषणं,
पुनरपि तथा कुर्वाणं कस्त्यजेद् बलवान्नृपः। इति विमृशताऽनेनाधायि क्रियाव्यपदेशता,
भवति यदयां सर्वासामप्यपानिधिरेव दिक् ॥२२॥
अन्वयः-क: बलवान्नृपः खरविशरणात् सागस्कृन्नरं हतदूषणं पुनरपि तथा कुर्वाण कं परित्यजेत् इति विमृशता अनेन क्रियान्यपदेशता अधाथि सर्वासामध्यपाम् अपानिधिरेव दिक् भवति ।। २२ ।।
व्याख्या-~-खरविशरणात् खरस्य कामस्य विशरणात् विजयात् हतदूषणम् दोपरहितम् अत एव कंसागस्कृन्नरम् कंसात् अगति कुटिलं ब्रजति परित्यजतीति कंसागाः कृत नरो येन स कंसागस्कृन्नरः पानपात्र त्याजितनः तदाश्रयात् पानभाजनग्रहणमपि नरैस्त्यक्त इति भावः पुनरपि तथा कामादिविजयं कुर्वाणमाचरन्तम् एवम्भूतमलौकिकक्रियानिष्णातं जनं बलवान् ज्ञानवान नृपः भूपः अन्यो वा जनः त्यजेत परिहरेत् न संगृह्णीयात् इति विमृशता विचारयता क्रियाव्यपदेशता क्रियातत्परता तदनुसरता अधायि अकारि तदनुमारको जनो बभूवे.