________________
२१.
महोपाध्यायत्री मेघविजयगणिविरचिते सक्षसन्धानमहाकाव्ये
कामादिः अतिवशः अकिञ्चित्करः पुत्रैः तनयादिभिः अव्याहस्त. द्विषयकप्रीत्यभाववान इमाश्वपदातिना विदलितमतिः गजतुरगपदातिसैन्येन बिदलितमतिः विदलिता दोषभूयस्त्वदर्शनेन विरक्ता निर्विष्णा मतिर्बुद्धिर्यस्य स धुर्या श्रेष्टायां पुर्यां नगर्यां गृहे चन्द्रशा लादिमन्दिरे यद्वा गृहे कलत्रे "न गृहं गृहमित्याहुग्रहणीगृहमुच्यते" इत्यभियुक्तोक्तेस्तत्र रुपमप्रीतिम् विरुचिं जगृहे दधार तमेवढयति अनयचलनादिति अनयचलनात् नयो नीतिस्तदभावोऽनयस्तस्मिन् चलनात् प्रवृत्तितः सध्वंसं सन्निहिताधःपतनं अमार्गगामिनामवश्य म्भावीध्वंस इति स्वत पर ध्वसोन्मुखम् कम् कमपि जनम् प्रपथ न पीडयेत् न तम्प्रतिरोपं विदध्यात् दैवोपहतत्वादित्यर्थः इति गुरुगिरा महजनवचनेन स तीर्थङ्करः खयमेव ततो निववृते स तु जिनेश्वरः सिन्धुधिया गुणादिरत्नाकरतया अवन्यैः बुद्धिमद्भिर्जनैरिति शेषः शिश्रिये आश्रितः ये केचनमतिमन्तस्ते गुणसमुद्रमेनम्मत्वा तदनुया यिनो बभूवुरिति तत्त्वम ॥२१॥
रामपक्ष-रिपुरतिवशः रिपो शत्रौ या रतिः स्थायिभावः क्रोध इत्यर्थः तस्या वशः पराधीनः क्रोधपरवश इति यावत् पुत्रैमेघनादादिभिः इभाश्वपदातिना गजतुरगपत्तिना च व्याप्तः परिवृता विदलितमतिः शत्रुकृतपराभवस्मरणेन शम्बूकादिवधेनेतिभावः विचलितचित्तः धुर्यां श्रेष्ठायां पुर्ण लंकायां गृहे रुषम् रोषम् सूर्पणखावाक्यात् जगृहे दधार अनयचलनात् अनपराधशम्बुकादिवधकारकात् स ध्वंसं आसन्नमृत्युम् प्रपद्य एवंभूतं जनमासाद्य न पीडयेदिति न किन्तु अवश्यमेव पीड येत् इति गुरुगिरा वृद्धजनवचनेन रिपुविशेष न कारये. दिति सूक्या सावधानोऽभवदिति शेषः स रावणः वन्यैः वनीयैराक्षसादिभिः सिन्धुधिया मदोन्मत्तमतङ्गजबुद्धया शिश्रिये अन्यथा अने. नैव विनाशः स्यादिति कृत्वेति भावः ।।