________________
भाचार्यश्रीविजयामृतरिप्रणीता सरणी टीका, सर्ग-५ २३९ वचनविरतो भावः आवाच्यभावः अन्तः जात इति शेषः तथाहि लोके नियते विधेर्बली सर्वतः श्रेष्ठः ॥
कृष्णपक्षे-रुक्मिण्या प्रथमपुत्र प्रद्युम्ने जातमात्रेऽपहृते नारदः केनचिन्मुनिना कथ्यमाने तदुदन्ते रुक्मिणीग्राग्भवजन्मवृत्तान्तं कृष्णसन्निधौ व्यावर्णयति समुदितेति । शतपर्वणि दूर्वायां समुदितगणे खसमाजे क्रीडालीनः खेलन् हरिः मयूरशिशुः आसीदिति शेषः तदा रुक्मिणी स्फुरत् विजम्भित् करवारतः हस्तमुद्राविशेषतः भगवति केकि निपराभेदं मातृषियोग चक्रे तं शिशुं गृहीत्वा स्वगृहमनयत् प्रतिदिनश्च तन्नयतिस्मेति प्रतिपदजपे प्रतिपादोत्थाने अस्य मातभूतस्य अन्तः हृदयं शीर्णः विदलितः शिशुवियोगात् जात इति शेषः तदैव खरात्मजः खनात्मजः खे रमते इति खरस्तस्यात्मजः मयूरशिशुः लोके वचनविरतो भावः मृतः भवेत् म्रियेत नियतेर्बलीन मृतस्तदा मातृपितृवचनेन तथा विसर्जितः षोडशवर्षन्त्वयापि शिशुविरहः सोढव्य इति मयूरीनिदानात्प्रद्युम्न वियोगो जात इति भावः ॥ २० ॥ रिपुरतिवशो व्याप्तः पुत्रैरिभाश्वपदातिना,
विदलितमतिः पुर्यां धुर्यां गृहे जगृहे रुषम् । अनयचलनात् कंसध्वंसं प्रपद्य न पीडये
दितिगुरुगिरा वन्यैः सिन्धुर्धिया स तु शिश्रिये २१
अन्वयः-रिपुरतिवशः पुत्रैः इभाश्वपदातिना व्याप्तः विदलितमतिः पुर्या धुण्यां गृहे रुषं जगृहे अनय चलनात् सध्वंसं के प्रपथ न प्रपीडयेदितिगुरुगिरा सिन्धुधिया शिश्रिये ॥ २१ ॥
व्याख्या-रिपुरतिवशः रिपुषु कामक्रोधादिषु या रतिर्विरति. स्तस्या वशः परतन्त्रः कामक्रोधादिविषयकविरक्तिपरवशः अथवा रिपुः