________________
૨૩. महोपाध्याय श्रीमेव विजय गणिविरचिते सप्तसन्धान महाकाव्ये
तदानीमेव खरात्मजः कामः खरश्वासौ आत्मजश्वेति मनोजत्वात् अन्तः शीर्णः अन्तः हृदयं शीर्णो विदीर्णो यस्य स वचनविरतो भावः अवाच्यभावः अभूदिति शेषः तथाहि लोके जगति नियतेरदृष्टस्य विधेरिति शेषः उत्कृष्ट इति तत्रम् ॥
श्री महावीर जिनेन्द्रपक्षे - तदीयशिष्यो गोशालो नियतिवादी तेन विहरन प्रभुः कदाचित् सिंहनाम्ना ग्रामाधिकारितनयेन गोशालः पराभूत इत्युपक्रम्याह समुदितेति । शतपर्वणि शारदपूर्णिमारात्रौ समुदितगणे नक्षत्रोदये स्फुरत्करवारतः विजृम्भत्खङ्गतः भगवति वैराग्यशालिनि गोशाले यत्र मन्दिरे गोशालेन सह भगवानासीत्तत्रैव निर्जनतयाऽवधार्य कयाचिद् भुजिख्यया क्रीडालीनो रममाणः हरिः सिंहनामा ग्रामाधिकारितनयः पराभेदं चक्रे खङ्गाघातं विदधे प्रतिपदजपे मंत्रोच्चारणपरायणे अस्य तदीयव्यापारं दृष्ट्वा विहस्यमानस्य गोशालस्य अन्तः शीर्णः विदीर्णो जातः खड्ग प्रहारतस्तदैव खरात्मजः गोशाल: लोके जगति नियतेर्वचनविरतो भावः अवाग्गोचरः बली सर्वोत्कर्षो भवेत् इति अमन्यत इति शेषः ।।
रामपक्षे – यदा वनस्थो रामस्तदा कदाचिल्लक्ष्मणः परिभ्रमन् दण्डके अन्तर्वशगह्वरे वटशाखानिबद्धचरणतयाsधोमुखं कमपि श म्बूकनामानं खरात्मजं सूर्य हासखङ्गसाधनतत्परम सिनाऽवधीदित्यनुसंधायाह समुदितेति ।
हरिः लक्ष्मणः समुदितगणे सीतारामजटायुसमन्विते निजस माजे क्रीडालीनः विरमाण: भगवति समृद्धिशालिनि शतपर्वणि वंशे स्फुरत् करवारतः सूर्यहासखगतः पराभेदं आत्यन्तिकच्छेदं चक्रे प्रतिपदजपे मंत्रोच्चार्यमाण अस्य खरात्मजस्य शम्बूकस्य अन्तः हृदयं शीर्णः विदीर्णः तदैव तदानीमेव खरात्मजः शम्बूकः लोके जगति