________________
___ आचार्य श्रीविजपामृतरिप्रणीता सरणी टोका. सर्ग-५ २३७ काभिधाने वनेऽरण्ये स्थितिः स्थानम् अजनि कुत इत्याकांक्षायामाह अनिशगमनाशक्तेः निरन्तरबजनसामर्थ्य विरहात् व्यक्तेतराश्रयधारणा चारणार्षिस्पर्शप्रभावेन गन्धाभिधपक्षिणः स्वरूपपरावर्त्तनजटायुरूप धारणात् अन्यत्र भ्रान्त्या भ्रान्तिकारकेण अत्र अभयददृशाज्ञानचक्षुषा विमोह विवेकतः विमोहत्यागतः नृणाम् ज्ञानवतां मागें तत्र मनः अरमत अतुष्यत् ॥
। कृष्णपक्षे-तत्राटव्यां रैवतकगिरिवने प्रभुरागिणां कृष्णासक्तचेतस्कानां स्थितिः अजनि जाता कुतः अनिशगमनाशक्तेः व्यक्त तराश्रयधारणात् अन्यवेशपरिवर्तनात् दण्डके दण्ड एव दण्डकस्तसिन् अश्वगमनयोग्य मार्गे वने नृणाम् मनः अरमत व्यहरत ।। १९ ॥ समुदितगणे क्रीडालीनो हरिः शतपर्वणि,
भगवति पराभेदं चक्रे स्फुरत्करवारतः । प्रतिपदजपेऽस्यान्तःशीर्णस्तदैव खरात्मजो
ऽवचनविरतो भावो लोके भवेनियतेली ॥२०॥
मन्वयः-शतपर्वणि समुदितगणे क्रीडालीनो हरिः भगवति पराभेद स्फुरस्करवारतः चक्रे अस्य प्रतिपदजपे अन्तःशीर्णः तदैवखरात्मजः वचनवि. रतो भावो (अगमत् ) लोके नियतेर्बली भवेत् ॥ २० ॥ ___ व्याख्या---शतपर्वणि शतमनेकं पर्व उत्सवो यस्य तसिन अनेकोत्सवशालिनि समुदितमणे गण्यते दिव्यपदप्राप्तया इति गणः देवादिः, समुदितः स प्रमोदः यद्वा प्राप्तोदयः तयोः कर्मधारय इति बसिन् अथवा समुदित एकत्रीभूतश्चासौ गणश्चेति तस्मिन् क्रीडालीन: परिहासासक्तः हरिरिन्द्रः स्फुरत् दीप्यत् करवारतः खड्गत: भगवति जिनेश्वरे पराभेदं सर्वतोरक्षणं चक्रे अन्तर्भूय सदा रक्षां चक्रे इति भावः अस्य विहरमाणस्य जिनेन्द्रस्य प्रतिपदजपे आत्मगुणस्मरणे तदैव