SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धानमहाकान्चै रूपप्रबलशत्रुकृतया वृत्या विधया उच्चैर्मनोरयम् शत्रु पराजयरूपं परे परमेश्वरे न्यस्यन् ईश्वराधीनं कुर्वन् समयं कालं निनाय ब्यतीतयामास अथ च उदधिः समुद्रः अधिकप्रीत्या कृष्ण विषयकनिरतिशय प्रेम्णा आदित्यस्थितावपि दिवापि रात्रौ किमुतवक्तव्यम् काञ्चन द्वारावतींद्वा रकां नगरी पुरीम् सुस्थिताम् सुरक्षिताम् व्यधित अकृत मा कदाचित् कोsपि कृष्णासन्निधाने द्वारकां धर्षयेदिति समुद्र एव परिखारूपेण तां ररक्षेति तात्पर्यम् ॥ १८ ॥ अजनि विषये तत्राटव्यां स्थितिः प्रभुरागिणामनिशगमनाशक्तेर्व्यक्तेतराश्रयधारणात् । अरमत मनो नृणां मार्गे वने ननु दण्डके २३६ प्यभयददृशाऽन्यत्र भ्रान्त्या विमोहविवेकतः ॥ १९ ॥ अन्वयः -- व्यक्तेतराश्रयधारणादनिशगमनाशक्तेः प्रभुरागिणां तत्रादव्यां विषये स्थितिरजनि नृणां मनः ननु दण्डके वने भ्रान्त्या विमोहविवेकतः अभय • tear अन्यत्र मार्गे मनः अस्मत || १९ ॥ व्याख्या - व्यक्तेतराश्रयधारणात् व्यक्तिः स्वप्रकाशस्तस्मादितरोऽप्रकाशस्तदाश्रयधारणात् कर्माधीनत्वात् अनिशगमनाशक्तेः नास्तिनिशा अन्धकारोऽज्ञानं यत्र तदनिशम् तत्र गमनाशक्तेः खप्रकाशज्ञानमार्गप्रवर्त्तनविरहात् अत एव व्यक्तेतराश्रयधारणं संगच्छते विमोहविवेकतः विमोहज्ञानतः अन्यत्र भ्रान्त्या अन्यत्र भ्रान्तिकार - केण अभयदशा ज्ञानदृष्टया प्रभुरागिणां जिनेन्द्रानुगामिनाम् नृणां मनः ननु दण्डके दण्डकानाम्नि वने मार्गे अरमत अलगत स्थितिश्च अजनि अभूत् ॥ रामपक्षे -- प्रभुरागिणां रामासक्तचेतसां तत्राटव्यां विषये दण्ड
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy