________________
आचार्यश्रीविजयामृतस्त्रिप्रणीता सरणी टोका. सर्ग-५ २३५ कान द्वारावती नगरी सुस्थितां व्यधित ॥ १९ ॥
व्याख्या-अथ स नायकः वर्णनीयप्रधुर्जिनेन्द्रः अरण्ये बने अनरण्यजवत् नागरवत् अथवा अरण्ये जायते भवतीति अरण्यजः पशुपक्ष्यादिविवेकविकलः स न भवतीति अनरण्यजः सदसद्विवेकी स इव अनया पूर्वोक्तया वृत्या आचारेण अथवा बुद्धिवृत्तिचिदाभासरूपया वृत्या उच्चैर्मनोरथं कैवल्यपदप्राप्त्यभिलाषं परे किश्चित् कालानन्तरं न्यस्मन् अथवा परे निर्मले कर्मक्षयकारके शुभादृष्टे न्यस्यन् परिणमयन् समयं कालं निनाय यापयामास अथ च उदधिः ज्ञानसमुद्रः क्षमासागरः अधिकप्रीत्या प्राणिनातप्रेम्णा मा केषाञ्चिदुपरोधो भवेदिति बुद्धया आदित्यस्थितावपि किञ्चिदवशिष्टदिने एव किमु काश्चन कामपि द्वारावती आगमननिर्गमनप्रचारवती नगरीम् नगाः वृक्षाः सन्त्यस्खां वृक्षाश्रयां सुस्थितां सुस्थिति निवसतिम् तत्र वने व्यधित व्यरचयत् वृक्षतलस्थितिमकरोदिति भावः।।
रामपक्षे-अनरण्यजवत् दशरथवत् निजजनकवत् अनया वृत्त्या व्यवहारेण अरण्ये वने उच्चैमनोरथम् , राज्यपालनरूपं संयमग्रहणरूपं वा परे पश्चात् व्यवस्थापयन् स नायकः रामः समयं वनवासरूपं खकीयमर्यादारूपं निनाय व्यतीतयामास उदधिः गाम्भीर्यादिगुण. समुद्रः अधिकप्रीत्या सीताविषयकादरातिशयेन आदित्यस्थितावपि दिववद्वारावती द्वारयुक्तां काञ्चन कामपि नगरी वृक्षाश्रयां सुस्थितां निवसतिम् व्यधित अकृत ॥
कृष्णपक्षे--अथ गिरितटप्राप्त्यनन्तरं स नायकः वासुदेवः अनरण्यजवत् दशरथनृप इव यथा स दशमु दिक्षु रथम् स्वसैन्यं निवेश्य स्थितः तथा सर्वतः स्वकीयरक्षासावधान: अनया एवंभूतया सावधानतया वृत्त्या उपचारेण अथवा अनया सव्यसनया जरासंध