________________
२३४
महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धान महाकान्वे
नीयते क्षीयते इति नयनम् तस्य विषयीभूते क्षयत्वमुपगते तस्मिन् कर्मणि मनोरसम् मनोरथम् मोक्षम् एष्यति प्राप्स्यति इतिमतिमता एवं कृतविचारेण तेन जिनेन्द्रेण सेना सिनोति बनातीति सेना इन्द्रि यसंयमना निग्रहणा आहिता संचिता कर्मक्षयायेन्द्रियरोधना कृतेतिभावः तां सेनां संयमितां निशम्यालोच्य हरेः जिनेन्द्रस्य सैन्यम् सेनां समवयतीति सैन्यं गमनम् इन्द्रियसंयमप्रगुणं विचरणम् क्रमिकचलनात् शनैः शनैर्विचरणात् अथवा हरेरिन्द्रिस्य सैन्यं प्रच्छनप्रयुक्तं जिनेन्द्राङ्गरक्षकम् अथ च जिनेन्द्रस्य सैन्यम् साधुपरिवार: गिरेः कस्यचित्पर्वतस्य तटम् समीपम् अगात् अत्राजीत् ॥
रामपक्षे – समधिकमतिशयबलवन्तं पापम् सीतापहारजन्य पापकारकं म्लेच्छसेनापतिं च्छेत्तुमुन्मूलयितुं मम प्रवर्त्तनम् प्रवृत्तिः अर्हति करणीयं भवति तस्मिन् शत्रौ नयनविषयी भूते दृष्टिपथावतीर्णे मनः रसं संग्रामरसं युद्ध कौतुकम् एष्यति प्राप्स्यति इति मतिमता एवं विचारयता तेन रामेण सेना उद्योगमुत्साहमित्यर्थः आहिता संचिता तां रामकृतरणोत्साहशक्ति निशम्य श्रुत्वा क्रमिकचलनात् पादचारतः हरेः रामस्य गिरेः पर्वतस्येव तटम् सन्निकर्षपादमूलसैन्यम् म्लेच्छसेनापतिसहितम् ग्रापत् अपराधक्षमापनाय तत्समीपमयासीत् ॥ १७ ॥ समयमनया वृत्त्यारण्येऽनरण्यजवन्मनो
रथमथ परे न्यस्यन्नुचैर्निनाय सनायकः । उदधिरधिकप्रीत्यादित्यस्थितावपि सुस्थिता,
व्यधित नगरीं तत्र द्वारावतीं किमु काञ्चन ॥ १८॥
अन्वयः -- अथ स नायक: अनया वृत्या अरण्ये अनरण्यजवत् उचैर्मनोरथं परे न्यस्यन् समयं निनाय उदधिः अधिकप्रीत्या आदित्यस्थितावपि तत्र