________________
नाचार्यनीविजपामृतप्रिप्रणीता सरणी टीका. सर्ग-५
२३३ ।।
कथमित्याह कंसापराधिविनाशनम् कामयते कामिनमिति कं सा कामिनी सीता तां पराध्नोति स्वीकरोतीति कंसापराधी तस्य विनाशनम् क्षणमपि कदा प्रेक्ष्ये द्रक्ष्ये. अत्रानुप्रासः विरोधाभासश्वालंकारः।।१६।। मम समधिकं पापं भेत्तुं प्रवर्तनमहति,
नयनविषयीभूते तस्मिन् मनोरसमेष्यति । इति मतिमता सेना तेनाहिता विनिशम्यतां,
ऋमिकचलनात् सैन्यं प्रापद्धरेश्च तटं गिरेः॥१७॥
(अन्वयः) पापं भेत्तुम् प्रवर्तनमर्हति नयनविषयीभूते तस्मिन् मम समधिकम् मनोरसमेध्यति इतिमतिमता तेन सेना आहिता ताम् विनिशम्य हरेः सैन्यम् ऋमिकचलनात् गिरेस्तटम् प्रापत् ॥ १७ ॥
व्याख्या-पापमस्यास्तीति पापः अपराधी वासुदेवस्त समधिकं वर्षमानं अतएवात्याज्यम् भेत्तुं च्छेत्तुं प्रवर्तनम्प्रवृत्तिः अर्हति अवश्यकर्तव्यत्वेनावतरति अनुपेक्षेणीयो भवतीत्यर्थः नयनविषयीभूते लोचनपथपथिकायमाने तस्मिन् अपराधिनि कृष्णे मम जरासंधस्य मनोरसम् मनसः रसम् शत्रुदर्शनजन्याह्लादविशेष एष्यति भविष्यति अथवा मनः स्वान्तं कर्तृ रसम् रौद्ररसं एष्यति प्राप्स्यति इतिमतिमता एवं विचारयता तेन सेना पृतना आहिता सञ्चिता सम्मेलिता ताम् आहितसेनाम् सैन्यस्थितिम् विनिशम्य चारादिद्वाराऽवगल्य हरेः कृष्णस्य सैन्यम् क्रमिकचलनात शनैः शनैर्गमनतः गिरेः पर्वतस्य तटम् सन्निधिम् प्रापत् अयासीत् ।।
अर्हतापक्षे-मम समधिकं यकिञ्चिदवशिष्टम् पापं कर्म मेत्तुं क्षपयितुं प्रवर्तनं विचरणम् अर्हति अवश्यमेव कर्त्तव्यं भवति अथवा पापं पात्यतेऽमादिति पापम् दुरदृष्टम् तत् मेत्तुम् च्छेतुं अर्हति स्याद्वा. दमते प्रवर्तनम् गमनमनुसाणं योग्यमिति शेपः नयनविषयीभूते