________________
૨૫૨
महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धान महाकान्ये
-
बलम् सैन्यम् विलोक्य निरीक्ष्य गन्धोत्तमापरिणामतः गन्धोत्तमायाः मदिरायाः परिणामतः परिपाकतः सेवनतः तुष्टः प्रसन्नः सन् गर्जवत् मत्तमातङ्ग इव स्पष्टम् प्रकाशं यथास्यात्तथा जगर्ज ननर्द तथाहि क्षणमपि मुहूर्तमात्रमपि कंसापराधिविनाशनम् कंसम् अपराध्नोतीति कंसापराधी वासुदेवः तस्य विनाशनम् मरणम् कदा कस्मिन् समये प्रेक्ष्ये अवलोकयिष्ये इति दध्यावितिशेषः ॥
अतांपक्षे - स महाप्रभुर्जिनेश्वरः जरापरिगत महासंघः आसर्वतः परिगता आपरिगता जरा जीर्णा आपरिगता आपरिणमिता महासन्धा महती प्रतिज्ञा संयमपालनरूपा यस्य स अवान्तरतत्पुरूषो बहुव्रीहिः दृढसंयमी अविरलावीयम् असुवते विषयमित्यश्वाः इन्द्रि याणि तेभ्यो हितम् रोधकमिति अवीयं स्वीयम् इन्द्रियदमनयोग्यं नैजंबलं सामर्थ्य अविरलम् विलोक्य दृष्ट्वा गंधोत्तमापरिणामतः गंधोत्तमायाः पद्मिन्यादिकामिन्याः परिणामतः त्यागतः अथवा गंध एव उत्तमो यस्यां सा गन्धोत्तमा इन्द्रियविषया तस्याः परिणामतः वर्जनतः जितेन्द्रियत्वात्तद्विषयमपि परिजिहीते प्रतिहरिधिया शिवबुद्धया यथा स स्मरहरस्तथाहमपीतिबुद्धया गर्जवत् गजवत् स्पष्टं प्रकाशं जगर्ज ननाद कंसापराधिविनाशनम् कामयते जयमितिकंसः कामः स एवापराधी दुर्जनस्तस्य विनाशनम् निराकरणम् क्षणमपि कदा प्रेक्ष्ये अत्रलोकयिष्ये इति दध्यावितिशेषः ॥
रामपक्षे कश्चिन्म्लेच्छसेन । पतिस्सीतां जिहीर्षुः प्रतिरामं समाग मदिति । अविरलाश्रीयं अश्वबहुलं स्वीयं बलं विलोक्य गन्धोत्तमापरिणामतः मद्यविकारतः जरापरिगतमहासंघः दृढप्रतिज्ञः म्लेच्छसेनापतिः प्रतिहरिधिया प्रतिहियते इति प्रतिहरिः भावे प्रत्ययः तस्य धिया सीतामवश्यमेव प्रतिहरिष्यामीतिबुद्ध्याहृष्टः सीता सौन्दयदर्शनेन तुष्टः स गर्जवत् मदोन्मत्तमातङ्ग इव जगर्ज रामत्रासाय स्पष्टं ननर्द
--