SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ भाचार्यश्रीविजयामृतसूरिप्रणीता सरणी टीका. सर्ग-५ २३१ अतिशयं क्रम पादविक्षेपम् गमनम् करोतीति स पाति जगदिति पतिः सूर्यस्तस्यादेशात् दर्शनात सूर्यदर्शनान्तरम् समम् मुनिभिः सहितं बह. लनिनदैः बहलं यथास्यात्तथा निर्गतः नदः शब्दः येषु तैः शब्दरहितः तूरैर्गमनैः दिशांबलायम दिविभागम् आपूरयत् पूरयतिस्म ।। कदाचित् सुगुप्तनामाचारणर्षिजटायुपूर्वभववृत्तान्तं कथयन् पाल कब्राह्मणकथा कथयति मगधेति । मगं पायं दधातीति मगधः तस्य विषयस्तस्मिन् राजां गेहे कुंभकारकटे नगरे माधवं प्रतिरुषा मायाः चवः भर्ता लक्ष्मीपतिः जितशत्रुनृपनन्दनस्कन्दककुमारस्तं प्रति रुपा क्रोधेन पूर्ववैरं स्मरन पालकः अनेकान्यस्त्राणि स्कन्दकाचार्यनिवास स्थाने रात्रौ भूमौ निचखान प्रातः नृपतिर्मुक्तविशेषणविशिष्टनमनाय तत्रानयत् नासौ साधुः कपटयुद्धाय समागत इति युद्धोद्योगमकारयदिति भावः ॥ १५ ॥ बलमविरलाश्वीयं स्वीयं विलोक्य पुरा जरा___ परिगतमहासन्धो गन्धोत्तमापरिणामतः । प्रतिहरिधिया तुष्टः स्पष्टं जगर्ज स गर्जवत् , क्षणपिकदा प्रेक्ष्ये कंसापराधिविनाशनम् ॥१६॥ अन्वयः--पुरा जरापरिग महासंधः गन्धोत्तमापरिणामतः अविरलाश्वीयं स्वीय बलं विलोक्य प्रति हरिधिया तुष्टः स गर्जवन् स्यष्टं जगर्ज क्षणमपि कदा कंसापराधिविनाशनम् प्रेक्ष्ये ॥ १६ ॥ व्याख्या-पूरा जरापरिगतमहासंघः जरया तन्नामकोपमात्रा परिगतः प्राप्तः महासंघः महासंघटनः सम्मेलनो येन स जन्मकाले द्वेशकालेस्तस्तदोपमाता संघट्टयामासेतिसन्दर्भः जरासंधनामानृपः प्रतिहरिधिया कृष्णप्रतिस्पर्धितया अविरलाश्वीयं अविरलम् निरन्त रम् अश्वीयम् अश्वानांसमूहो यत्र तम् अश्वप्रधानकम् स्वीयम् नैजम्
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy