________________
महोपाध्याय श्री मेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये
૨૩૦
निनदैः तूरैः दिशाम् वलयम् आपश्यत् ॥ १५ ॥
व्याख्या -मगधविषये मगधदेशे राजां गेहं राजन्ते इति राजस्तेषां गेहे साम्प्रतं राजगृहनानाप्रसिद्धे प्रतिमाधवं प्रतिवासुदेवम् जरासन्धमुद्दिश्यरुषा विशदसिचयम् विशदाः देदीप्यमानाः असिचयाः खङ्गसमूहा यस्मिन् तत्तथोक्तम् अथवा विशदास्तीक्ष्णाः असिचयाः यत्र तद् अथवा विशन्तः प्रविशन्तः संकुलीभवन्तः असिचयाः खड्गाः यत्र तद् भूषायोगात् सांग्रामिककवचाद्याभरणसंबन्धात् नमत् आकुश्चत् समरसहितम् समरे संग्रामे सहितम् हितविधायकम् नतूपजापादिना पराङ्मुखम् अथवा समरसे शान्तियुक्तेहितम् अबाधकम् पश्यादेशात्पत्तेः सेनापतिविशेषस्य " एके मैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका इत्यमरः " इत्युक्तलक्षणस्य आदेशात् आज्ञातः अति. क्रमऋत् " अहितान् प्रत्यभीतस्य रणे यानमतिक्रम इत्यमरः " इति निर्भीकता शत्रुसन्मुखगमनकारकम् बलम् सैन्यम् बहलनिनदैः भूरिनिनदमानैः तूरैस्तूर्यैः दिशाम् वलयम् दिग्विभागम् आपूरयत् स्थगयत् चचाल ययौ ॥
अर्हतांपक्षे — विभक्तिविपरिणामेन सर्वत्रान्वयः तथा च मगधविषये मगधदेशे राजां गेहे राजगृहादिपुण्यस्थाने अरुषा अक्रोधेन प्रतिमाधवः प्रतिमां कायोत्सर्गे धन्वति प्राप्नोतीति प्रतिमाधवः कायोत्सर्गकृत् धन्वतेः पचादित्वादच् विशदसिचय विशेषेण सद्गतः व्यक्तशातनो लोकपीडा येन स विशद् असिचयः सिचयो वस्त्रं नास्ति यस्य स तथोक्तः भूषाया अलंकारस्य अयोगात् असंबन्धाद्राहित्येन चालवलः चाले गमने तस्करादिसम्बाधसंबाधितेऽपि अप्रतिहतगमनः नमन् नमन्ति जना यम् स अथवा नमन् सर्वत्र प्रह्नः निरहंकारः समरसहितः शमर से शान्तरसे हितः युक्तः शान्तिरसयुक्तः अतिक्रमकृत्
,