________________
आचार्यश्रीविजयामृतरिप्रणीता सरणी टीका. सर्ग-५ १२१ युक्तो तौ नमिविनमिभूपौ खगाभिषु आकाशचारिषु अनुपमम् निरुपमम् कामितम् यथेष्टम् सुखम् भोगम् भुञ्जाते भोगम् कुरुतः अचिन्त्यप्रभावो जिनेश्वरो येन ताभ्याममयदुर्लभमुखं सद्यः दीय. तेस्मेति भावः ॥ १४ ॥
अन्यपक्षे नमते इति नमिः विशेषेण नमते इति विनमिः तौ वनमुपगतम् वनस्थम् देवम् प्रभु सेवे श्रुतिः शास्त्रम् दृग् नेत्रं च यस्य स श्रुतिहम् अथवा श्रूयते प्रख्यायते इति श्रुतिः श्रुतिः प्रख्याता अनन्यसाधारण्येन विख्याता दृग् नेत्रं यस्य स श्रुतिहम् सहस्राक्षः ताभ्याम् सेवकाभ्याम् बहुविद्यया अनेकविधविद्यया बलम् निरुपम सामर्थ्यम् प्रभुसेवासुमुखः सन्नित्यर्थः प्रादात् ददातिस्म शेषं पूर्ववत्।।
कृष्णपक्षे-नमिर्विनमिनृपः वनमुपगतं समुद्रजलान्तारकास्थं देवम् दीप्तिमन्तम् कृष्णम् सेवे श्रुतिदृग् शास्त्रदृश्वा कृष्णस्ताभ्यां सेवकाभ्याम् बहुविद्यया समम् विदन्त्यनया वैषयिकसुखमिति विद्या कन्या तया सह बलम् सैन्यम् प्रादात् प्रायच्छन् तौ रजतशिखरिस्थाने वतकपर्वते राज्यश्रिया राज्यश्रीरिवश्रीः शोभा सम्पत् तया परिवा. रितौ युक्तौ खगामिषु आकाशगामिषु कामिन्तमनोभिलषितमनुपममनन्यसाधारणम् सुखमानन्दमुपभुञ्जाते अनुभवतः ॥ १४ ॥ राम. पक्षे द्वितीयपक्षबज्ज्ञेयम् । मगधविषये राजां गेहे रुषा प्रतिमाधवं,
विशदसिचयं भूषायोगाचचाल बलं नमत् । समरसहितं पत्यादेशादतिक्रमकृत् समं,
बहलनिनदैस्तूरैरापूरयद् वलयं दिशाम् ॥ १५ ॥
अन्वयः-मगधविषये राजां गेहे रुषा प्रतिमाधवं भूषायोगात् विशदसिचयं नमत् बलम् घचाल समरसहितम् पत्यादेशादतिक्रमकृत् समम् बहल