SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २२८ महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तसन्धानमहाकाव्ये प्रभावेन पवित्रवाक् सत्यवचनः प्रभोजिनेन्द्रस्य बहुरोचितः अत्यन्त भक्तः "चतुर्थी चाशिष्यायुष्येति विकल्पेन षष्ठी शुचिः पूतः असमयम् भिक्षायाः कालातिक्रमो जात इति अनवसरं मत्वा बुध्वा निवृत्तेषु भिक्षाचरेषु सत्सु अदत्त प्रभवे भिक्षामिति शेषः सपदि तत्क्षणे मुदितः जिनेश्वररूपसत्पात्रदानादतिशयहृष्टमनाः धन्यः अत एव कृतकृत्यः जन्योज्झितः कलिरहितः प्रतिलम्भनात् भिक्षादानात् कथंभूतात् अ. रिपरिभवातं अरिम् बाह्याभ्यन्तरशत्रु परिभवति पराकरोतीति तस्मात् दूरे दूरे त्रिलोक्यां स्वम् यशः स्वकीयकीर्तिम् अकारयत् प्राख्यापयत्।। रामकृष्णपक्षे-प्रभोः स्वामिनः साधोः प्रतिलम्भनात् भिक्षाप्रदानात् अन्यत् यथापूर्वम् ॥ १३ ॥ वनमुपगतं सेवे देवं नमिर्विनमिर्नुपः, अतिगपि च प्रादात्ताभ्यां बलं बहुविद्यया। रजतशिखरिस्थाने राज्यश्रिया परिवारितो, सुखमनुपमं भुनाते तो खगामिषु कामितम्॥१४॥ अन्वयः-नावि नमिर्नृपः वनमुपगतम् देवम् सेवे श्रुतिहगपि च यहुविद्य या बलम् ताभ्याम् प्रादात् रजतशिखरिस्थाने राज्यश्रिया परिवारितौ तौ खगाभिषु कामितम् अनुपमम् सुखम् भुजाते ॥ १४ ॥ व्याख्या-नमिः विनमिः नृपः तदभिधानको आदीश्वरभगवतः कुलजी वनमुपगतम् वनस्थम् दीक्षितमित्यर्थः देवम् आदीश्वरम् सेवे भेजे ततः श्रुतिगपि धरणेन्द्राभिधो नागोऽपि तपो राज्याभिलापं ज्ञात्वेतिशेषः ताभ्याम् नृपाभ्याम् बहुविद्यया अनेकविधतिरस्क. रिष्यादिविद्यया सहेति शेपः चलम् बहुविधसामर्थ्यम् प्रादात् अर्पयत् रजतशिखरिस्थाने वैताट्यपर्वते राज्यश्रिया राज्यलक्ष्म्या परिवारितो
SR No.008453
Book TitleSaptasandhan Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmrutchandracharya
PublisherJain Sahitya Vardhak Sabha
Publication Year
Total Pages480
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy