________________
आचार्यश्रीविजयामृतरिप्रणीता सरणी टीका, सर्ग-५
२२७
न्द्रस्य प्रियाम् रुचिरामनवद्याम् रसपारणाम् मधुररसप्रधानां पारणां व्रतान्तभोजनम् अकारयत् व्यधापयत् तथा च श्रीशान्तिनाथस्य सुमि
नृपमन्दिरे परमान्नेन पारणा जाता श्रीपार्श्वनाथस्य कोपकनामनगरे धन्यकगृहे पायसेन पारणा जाता नेमिनाथस्य वरदद्विजगृहे परमानेन पारणा जाता महावीरस्वामिनः बहुलब्राह्मणगृहे परमानेन पारणा जाता सपदि सदने इत्यादि पूर्ववत् ।।
रामपक्षे-ईशः राजा श्रेयान् कल्याणवान् विनयनयभाग इक्षोः जितकामस्य भिक्षोः चारणर्षेः त्रिगुप्तस्य सुगुप्तस्य च कतिपयदिनैर्द्विमासानन्तरम् अञ्जसा झटिति प्रियां निरवधाम् रसपारणाम् अकारयत् रामः शेषं पूर्ववत् ॥
कृष्णपक्षे-कतिपयदिनैः कतिपयदिनपर्यन्तं इक्षोः कामजयिनः भिक्षोजिनेन्द्रस्य प्रीयाम् नीतिसम्पादिकाम् रसपारणाम् अष्टाह्निकतपश्चर्याम् द्वारकानिर्माणाय अकारयत् व्यचरयत् सपदि हिरण्मयीत्यादिपूर्ववदवसेयम् ।। १२॥ प्रकृतिसुभगः श्रेयोलिप्सुः सुमित्रपवित्रवाक् ,
शुचिरसमयं मत्वाऽदत्त प्रभोर्बहुरोचितः। सपदि मुदितो धन्यो जन्योज्झितः प्रतिलम्भना
दरिपरिभवाद् दूरे दूरे यशः स्वमकारयत् ॥१३॥
अन्वयः-प्रकृतिसुभगः श्रेयोलिप्सुः सुमित्रपवित्रवाक् प्रभोर्बहुरोचितः शुचिः असमयं मया अदत्त मुदितः धन्यः जन्योजिमतः प्रतिलम्भनात् अरिपरिभवात् दूरे दूरे स्वं यशः अकारयत् ॥ १३ ॥
व्याख्या-प्रकृतिसुभगः स्वभावसुन्दरः श्रेयोलिप्सुः कल्याणामिलापुका सुमित्रपवित्रवाक् सुमित्रेण शोभनसुहृदा तत्संगेनेत्यर्थः